Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 682
________________ ऽध्यायः ] सचक्रादिधारणपुण्ड्रक्रिया भिधानवर्णनम् । १२२१ अथ च प्रव्रजेद्विद्वान् कन्यां वाऽपि समुद्वहेत् । प्रव्रज्यामपि कुर्वीत कर्म वेदोदितं महत् ॥ २१४ आत्मन्यग्नि समारोप्य जुहुया दात्मवान् सदा । मनसा वा प्रकुर्वीत नित्यनैमित्तिक क्रियाः ।।२१५ गृहस्थो वा वनस्थो वा यतिर्वाऽपि भवेद् द्विजः । अनाश्रमी न तिष्ठेत यावज्जीवं द्विजोत्तमः ॥२१६ वर्णाश्रमेषु सर्वेषां पूजनीयो जनार्दनः । न व्यापकेन मन्त्रेण सदैव च महीपते ॥ २१७ व्यापकानां च सर्वेषां ज्यायानष्टाक्षरो मनुः । अष्टाक्षरस्य जप्ता तु साक्षान्नारायणः स्वयम् ॥२१८ सन्यासं च समुद्रश्च सर्षिश्छन्दोऽधि देवतम् । न (स) दीक्षा विधि न ( स ) ध्यानं साथ मन्त्रमुदः हृतम् ॥ २१६ स्नात्वा शुद्धः प्रसन्नात्मा कृतकृत्यो जनार्दनम् । मनसाऽप्यर्चयित्वा वा जपेन्मन्त्रं सदा बुधः ॥ २२० दानप्रतिप्रहौ यागं स्वाध्यायं पितृतर्पणम् । पितृक्रियाष्टाक्षरस्य जप्ता कुर्यादतन्द्रितः ॥ २२१ धृतोर्ध्व पुण्ड्रदेहश्च चक्राङ्कितभुजस्तथा । अष्टाक्षरं जपन्नित्यं पुनाति भुवनत्रयम् ॥२२२ जपेद्भोगतया मन्त्रं सततं वैष्णवोत्तमः । न साधनतया जप्यं कर्तव्यं विष्णुतत्परैः ।। २२३ अष्टोत्तरसहस्रं वा शतमष्टोत्तरन्तु वा । त्रिसन्ध्यासु जपेन्मन्त्रं तदर्थमनु चिन्तयन् ॥ २२४

Loading...

Page Navigation
1 ... 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696