Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
ध्यायः ] स्त्रीधर्माभिधानवर्णनम् । १२१९
तस्मादवैदिक धर्म दूरतः परिवर्जयेत्। . वैदिकेनैव विधिना भक्त्या सम्पूजयेद्धरिम् ।।११२ श्रौतेन विधिना चक्रं धृत्वा वै बाहुमूलयोः । धृतोर्ध्वपुण्डः शुद्धात्मा विधिनैवार्चयेद्धरिम ।।१६३ कर्मणा मनसा वाचा न प्रमाद्यत् सनातनात् । न प्रमाद्येत्परं धर्मात् श्रुतिस्मृत्युक्तगौरवात् ।।१६४ सुशीलन्तु परं धर्म नारीणां नृपसत्तम!। शीलभङ्गेन नारीणां यमलोकः सुदारुणः ।।१६५ मृते जीवति वा पत्यौ या नान्यमुपगच्छति । सैव कीर्ति मवाप्नोति मोदते रमया सह ॥१६६ पति या नातिचरति मनोवाकायकर्मभिः । सा भर्तृ लोकमाप्नोति यथैवारुन्धती तथा ॥१६७ आर्ताऽर्ते मुदिते हृष्टा प्रोषिते मलिना कृशा । मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥१६८ या स्त्री मृतं परिष्वज्य दग्धा चेद्धव्यवाहने । सा भर्तृलोकमाप्नोति हरिणा कमला यथा ।।१६६ ब्रह्मनं वा सुरापं वा कृतघ्नं वाऽपि मानवम् । यमादाय मृता नारी तं भर्तारं पुनाति हि ।।२०० साध्वीनामिह नारीणामग्निप्रपतनाहते। नान्यो धर्मोऽस्ति विज्ञेयो मृते भर्तरि कुत्रचित् ।।२०१ वैष्णवं पतिमादाय या दग्धा हव्यवाहने । सा वैष्णवपदं याति यत्र गच्छन्ति योगिनः ।।२०२

Page Navigation
1 ... 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696