SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ ध्यायः ] स्त्रीधर्माभिधानवर्णनम् । १२१९ तस्मादवैदिक धर्म दूरतः परिवर्जयेत्। . वैदिकेनैव विधिना भक्त्या सम्पूजयेद्धरिम् ।।११२ श्रौतेन विधिना चक्रं धृत्वा वै बाहुमूलयोः । धृतोर्ध्वपुण्डः शुद्धात्मा विधिनैवार्चयेद्धरिम ।।१६३ कर्मणा मनसा वाचा न प्रमाद्यत् सनातनात् । न प्रमाद्येत्परं धर्मात् श्रुतिस्मृत्युक्तगौरवात् ।।१६४ सुशीलन्तु परं धर्म नारीणां नृपसत्तम!। शीलभङ्गेन नारीणां यमलोकः सुदारुणः ।।१६५ मृते जीवति वा पत्यौ या नान्यमुपगच्छति । सैव कीर्ति मवाप्नोति मोदते रमया सह ॥१६६ पति या नातिचरति मनोवाकायकर्मभिः । सा भर्तृ लोकमाप्नोति यथैवारुन्धती तथा ॥१६७ आर्ताऽर्ते मुदिते हृष्टा प्रोषिते मलिना कृशा । मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥१६८ या स्त्री मृतं परिष्वज्य दग्धा चेद्धव्यवाहने । सा भर्तृलोकमाप्नोति हरिणा कमला यथा ।।१६६ ब्रह्मनं वा सुरापं वा कृतघ्नं वाऽपि मानवम् । यमादाय मृता नारी तं भर्तारं पुनाति हि ।।२०० साध्वीनामिह नारीणामग्निप्रपतनाहते। नान्यो धर्मोऽस्ति विज्ञेयो मृते भर्तरि कुत्रचित् ।।२०१ वैष्णवं पतिमादाय या दग्धा हव्यवाहने । सा वैष्णवपदं याति यत्र गच्छन्ति योगिनः ।।२०२
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy