________________
१२२०
वृद्धहारीतस्मृतिः ।
मृते भर्तरि या नारी भवेद्यदि रजस्वला । चिता संग्रहे तावत् स्नात्वा तस्मिन् प्रवेशयेत् ॥ २०३ गर्भिणी नानुगन्तव्या मृतं भर्त्तारमव्यया । ब्रह्मचर्यव्रतं कुर्याद्यावज्जीवमतन्द्रिता || २०४ केशरञ्जनताम्बूलगन्धपुष्पादि सेवनम् । भूषितं रङ्गवस्त्र व कांस्यपात्रे च भोजनम् ॥२०५ द्विवारं भोजन स्वाक्ष्णोरञ्जनं वर्जयेत्सदा । स्नात्वा शुक्लाम्बरधरा जितक्रोधा जितेन्द्रिया ॥२०६ न कल्क कुहका साध्वी तन्द्रालस्य विवर्जिता । सुनिर्मला शुभाचारा नित्यं सम्पूजयेद्धरिम् || २०७ क्षितिशायी भवेद्रात्रौ शुचौ देशे कुशोत्तरे । ध्यानयोगपरा नित्यं सतां सङ्गे व्यवस्थिता ॥ २०८
तपश्चरणसंयुक्ता यावज्जीवं समाचरेत् । तावतिष्ठेन्निराहारा भवेद्यदि रजस्वला || २०६ सभतृ का सती वाऽपि पाणिपूरान्न भोजनम् । एकवारं समश्नीयाद्रजसा च परिप्लुता ॥२१० एवं सुनियताहारा सम्यग्व्रतपरायणा । भर्त्रा सह समाप्नोति बैकुण्ठ पदमव्ययम् ॥२११ दग्धव्या साऽग्निहोत्रेण भर्तुः पूर्व मृता तु या । स्वांशमग्नि समादाय भर्त्ता पूर्ववदाचरेत् ॥ २१२ कृत्वा कुशमयीं पत्नी यावज्जीवमतन्द्रितः । जुहुयादग्निहोत्रं तु पञ्चयज्ञादिकं तथा ॥ २१३
[ अष्टमी