Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
१९१८ वृद्धहारीतस्मृतिः।
[ अष्टमोअवलम्ब्य मतं तस्य केचिदत्र महर्षयः। अवैदिकेन मार्गेण पूजयन्ति स्म केशवम् ॥१८१ अशास्त्रविहितं धर्म सर्वे कुर्वन्ति मानवाः । स्वाहास्वधावषट्कारवर्जितं स्यान्महीतलम् ॥१८२ ततः क्रुद्धो जगन्नाथः शङ्खचक्रगदाधरः । इदमाह मुनिश्रेष्ठं शाण्डिल्यममितौजसम् ॥१८३ दुबुद्ध ! मामकं धर्म परमं वैदिकं महत् । अवैदिकक्रियाजुष्टं प्राग्लभ्यात् कृतवानसि ॥१८४ यस्मादवैदिक धर्म प्रवर्तयसि मां द्विज!। तस्मादवैदिकं लोकं निरयं गच्छ दारुणम् ।।१८५ तद्वाक्यादेव देवस्य शाण्डिल्योऽभूद्भयाकुलः । स्तुवन् प्राह जगन्नाथं प्रणिपत्य पुनः पुनः॥१८६ त्राहि त्राहीहि लोकेश ! मां विभो ! सापराधिनम् । ततः स कृपया विष्णुभंगवान् भूतभावनः ।।१८७ दित्यवर्षशतं विप्र! भुक्त्वा नरकयातनाम् । उत्पत्स्यसे भृगोवशे जमदाग्निरितीरितः ।।१८८ सत्राऽऽराध्य पुनमा तु वैदिकेनैव धर्मतः । गच्छ तस्मिन् मुनिश्रेष्ट ! मम लोकं सुनिर्मलम् ॥१८६ इत्युक्त्वा भगवान्विष्णुस्तत्रैवान्तरधीयत । शाण्डिल्यो निरयं प्राप्य पुनरुत्पद्य भूतले ॥१६० वेदोक्तविधिना विष्णमर्चयित्वा सनातनम् । विशुद्धभावात् सम्प्राप्य तद्धाम परमं हरेः ।।१६१

Page Navigation
1 ... 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696