Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
१२१६
वृद्धहारीतस्मृतिः ।
वृस्त्याख्यस्य तरोरस्य सुदृढं मूलमुच्यते । त्यागेन चैव धर्मस्य निषिद्धाचरणेन च ॥१५६ आज्ञातिक्रमणाद्विज्ञः पतत्येव न संशयः । ज्योतिष्टोमादयः सर्वे यज्ञा वेदेषु कीर्तिताः ॥ १६० पुण्यव्रताः पुराणोक्ता दाना नैमित्तिकादिषु । विष्णोर्भोगतया सर्वाः कर्तव्या वैष्वणोत्तमैः ।।१६१. यस्तूपायतया कृत्यं नित्यनैमित्तिकादिकम् । सत्कृत्यं कुरुते विष्णोर्वेष्णवः स उदीरितः ।। १६२ विष्णो रज्ञतया यस्तु सत्कृत्यं कुरुते बुधः । स एकान्तीति मुनिभिः प्रोच्यते वैष्णबोत्तमः ॥ १६३ यस्तु भोगतया विष्णोः सत्कृत्यं कुरुते सदा । स भवेत्परमैकान्ती महाभागवतोत्तमः ॥१६४ वर्जनीयमकृत्यन्तु सर्वेषां करणे स्त्रिभिः । अकामतस्तु यत्प्राप्तौं प्रायश्चित्ताद्विनश्यति ।। १६५ . अकृत्यं वैष्णवैः पापबुध्या शास्त्रविरोधितः । एकान्त परमैकान्ति रुच्यभावाच्च सन्त्यजेत् ॥१६६ श्रुतिस्मृत्युदितं धर्मं यस्त्यजेद्वैष्णवाधमः । स पाषण्डीति विज्ञेयः सर्वलोकेषु गर्हितः ॥ १६७ अकृत्य करणाद्वाऽपि कृत्यस्याकरणादपि । द्वादशीविमुखत्वेन पतत्येव न संशयः ॥१६८ तस्मात्सर्वप्रयत्नेन सत्कृत्यं सर्वदा चरेत् । आज्ञातिक्रमणाद्विष्णो र्मुक्तोऽपि विनिबध्यते ॥ १६६
[ अष्टमों

Page Navigation
1 ... 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696