Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
१२१४
वृद्धहारीतस्मृतिः। [अष्टमोसुदर्शनं पाञ्चजन्यं भाण्डानां यज्ञयोगिनाम् । कुशोत्तरे शुचौ देशे विन्यस्य कुशवारिणा ॥१३७ संप्रोक्ष्य मन्त्ररत्नेन वस्त्रेणाऽऽच्छादयेत्ततः। क्षालयित्वाऽथ देवस्य भाजनानि शुभैर्जलैः॥३३८ अभिपूर्य ततो दद्याद्भोजयेच्च विशेषतः। भोजयेदागतान् काले सखिसम्बन्धिबान्धवान् ।।१३६ बालान् वृद्धान् भोजयित्वा भर्तारं भोजयेत्ततः । स्वयं हृष्टा ततोऽश्नीयाद्भर्तुभुक्तावशेषितम् ॥१४० पशाचिकानां यक्षाणां शक्तानां लिङ्गधारिणाम् । द्वादशीविमुखानी च संलापादि विवर्जयेत् ।।१४६ शैवबौद्धस्कान्दशाक्तस्थानानि न विशेत् कचित् । वर्जयेत्तत्समीपस्थं जलपुष्पफलादि च ।।१४२ . न निरीक्षेत देवानामुत्सवादि कदाचन । स्तुतिं वाऽप्यन्यदेवानां न कुर्याच्छृणुयान च ॥१४३ कामप्रसङ्गसंलापान् परिहासादि वर्जयेत् । अन्यचिह्राङ्कितं वस्त्रं भूषणासनभाजनम् ॥१४४ वृक्षं पशु कूपगृहान भाण्डं चैव विवर्जयेत् । अन्यालये हरि दृष्टा देवतान्तरसंसदि ।।१४५ .. नार्चयेन्नप्रणमेच तीर्थसेवां विवर्जयेत् । अवैष्णवस्य हस्तात्तु दिव्यदेशादुपागतम् ।।१४६ हरेः प्रसादतीर्थाचं यलेन परिवर्जयेत् । आकारत्रयसन्पो नवज्याकर्मणि खितः ॥१४७

Page Navigation
1 ... 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696