Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
ज्यायः] स्त्रीधर्माभिधानवर्णनम् ।
समस्तयज्ञभोक्तारं ज्ञात्वा विष्णुं सनातनम् । देवं पैत्रं तथा यज्ञं कुर्यान्नतु परित्यजेत् ॥१७० त्रिदण्डमवलम्बन्ते यतयो ये महाधियः । तेषामपि हि कर्तव्यं सत्कृत्यमितरेषु किम् ॥१७१ ब्रह्म ब्रह्मा ब्राह्मणाश्च त्रितयं ब्राह्ममुच्यते। तस्माद् ब्राह्मणविधिना परं ब्रह्माणमर्चयेत् ॥१७२ समस्तयज्ञभोक्तारमज्ञात्वा विष्णुमव्ययम् । वेदोदितं यः कुरुते स लोकायतिकः स्मृतः ॥१७३ यस्तु वेदोदितं धर्मन्त्यक्त्वा विष्णुं समर्चयेत् । स पाषण्डत्वमापन्नो नरकं प्रतिपद्यते ॥१७४ वेदाः प्राणा भगवतो वासुदेवस्य सर्वदा। तदुक्तकर्माकुर्वाणः प्राणहर्ता भवेद्धरेः ॥१७५ विष्णोराराधनाद्वदं विना यस्त्वन्यकर्मणि । प्रयुञ्जीत विमूढात्मा वेदहन्ता न संशयः ॥१७६ वत्सं माता लेढि यथा तथा लेढि स मातरम् । श्रुतं विष्णोः प्रियं ज्ञात्वा विष्णुं वेदेन वै यजेत् ॥१७७ तस्माद्वेदस्य विष्णोश्च संयोगो यस्तु दृश्यते । स एव परमो धर्मो वैष्णवानां यथा नृप !॥१७८ कश्चित् पुरा नृपश्रेष्ठ ! काश्यपो ब्राह्मणोत्तमः । शाण्डिल्य इति विख्यातः सर्वशास्त्रविशारदः ॥१७६ स तु धर्मप्रसङ्गेन विष्णोराराधनं प्रति । अवैदिकेन विधिना कृतवान् धर्मसंहिवाम् ॥१८०

Page Navigation
1 ... 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696