Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 676
________________ ऽध्यायः] सवैष्णवलक्षणनवविघेण्याभिधानवर्णनम् । १२१५ विष्णोरनन्यशेषत्वं तथैवानन्यसाधनम् । तथैवानन्यभोग्यत्वमाकारत्रयमुच्यते ॥ अर्चनं मन्त्रपठनं ध्यानं होमश्च वन्दनम् । स्तुतियोगः समाधिश्च तथा मन्त्रार्थचिन्तनम् ॥१४६ एवं नवविधा प्रोक्ता चेज्या वैष्णवसत्तमैः। प्राप्यस्य ब्रह्मणो रूपं प्राप्यञ्च प्रत्यगात्मनः ॥१५० प्राप्त्युपायं फलन्चैव तथा प्राप्तिविरोधि च । । ज्ञातव्यमेतदर्थस्य पञ्चकं मन्त्रविचमैः ॥१५१ . जगतः करणत्वं च तथा स्वामित्वमेव च । श्रीशत्वं सगुरुत्वथ ब्रह्मणो रूपमुच्यते ॥१५२ देहेन्द्रियादिभ्योऽन्यत्वं नित्यत्वादिगुणौघता। श्रीहरेर्दास्य धर्मत्वं स्वरूपं प्रत्यगात्मनः ॥१५३ उपायाध्यवसायेन त्यक्त्वा कर्मोघमात्मनः । हरेः कृपाबलम्बित्वं प्राप्त्युपायमिहोच्यते ॥१५४ सर्वैश्वर्यफलं त्यत्तवा शब्दादिविषयानपि । दास्यैकसुखसङ्गित्वं विष्णोः फलमिहोच्यते ॥१५५ तज्जनस्यापराधित्वं शब्दादिष्वनुरक्तता। कृत्यस्य च परित्यागो हकृत्यकरणं तथा ॥१५६ द्वादशीविमुखत्वं च विरोधि स्मात् फलस्य हि । अर्थपञ्चकमेतद्धि ज्ञातव्यं स्यान्मुमुक्षुभिः ।।१५७ विहितं सकलं कर्म विष्णोराराधनं परम् । निबोध तपश्रेष्ठ ! भोगार्थ परमात्मनः ॥१५८

Loading...

Page Navigation
1 ... 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696