Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
११४८
कृद्धहारीतस्मृतिः। [सप्तमोपश्चात्समर्चनीयाः स्युः श्रीभूनीलादिमातरः । सुदर्शनसहस्रारं पवित्रं ब्रह्मण स्पतिम् ॥१६५ सहस्राकं शतोद्यामं लोकद्वारं हिरण्मयम् । अभ्यायेत् क्रमादिक्षु तथा शक्तीः समच येत् ।।१६६ अनिष्टध्वंसिनी माया लज्जा पुष्टिः सरस्वती । प्रकृतीजगदाधारा कामधुक् चाष्टशक्तयः ॥१६७ तथा ताश्चैव लोकेशाः पूज्या दिक्षु यथाक्रमात् । अभ्यर्च्य गन्धपुष्पा नवेद्यैर्विविधैरपि ॥१६८ ऋग्वेदोक्तस्य सूक्तेन ततो नीराजनं हरेः । नवमं मण्डल पश्चाद्धोतव्यं चरुणा नृप ! ॥१६६ आज्येन वा तिलैर्वाऽपि बिल्वर्वाऽपि सरोरुहैः । हुत्वा पुष्पाञ्जलिं दत्त्वा कुर्यादवभृथादिकम् ।२०० ब्रामणान् भोजयेत्पश्चाद् गुरुश्चापि समर्चयेत्। उद्वाह्य वैष्णवीं कन्यां याचित्वा वैष्णवीं तथा ॥२०१ हुत्वा वा वैष्णवेनैव तथैवाऽऽदित्यभुज्यपि । अन्यलिङ्गधृतौ चापि कुर्यादिष्टिमिमां द्विजः ॥२०२ सौदर्शनेन मन्त्रोण सहस्रं जुहुयाचरुम् । पुष्पाणि दत्त्वा साहस्रं सम्यगिष्ट्याः फलं लभेत् ।।२०३ अथ भागवतीमिष्टिं प्रवक्ष्यामि नृपोत्तम !। उपोष्यैकादशी शुद्धां द्वादश्यां पूर्ववद्धरिम् ।।२०४ अर्चयित्वा विधानेन गन्धपुष्पाक्षतादिभिः । पौरुषेण तु सूक्तेन श्रीमदष्टाक्षरेण वा ॥२०५

Page Navigation
1 ... 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696