Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
११६४
वृद्धहारीतस्मृतिः ।
[ सप्तमो
जपेश्च भगवन्मन्त्रान् शान्ति पाठ ध्वरेत्तथा । एवं संसेव्य बहुधा रात्रावस्मिन् जलाशये || २६१ प्रदेवोति सूक्तेन यज्ञशालां प्रवेशयेत् । तत्र नीराजनं दत्त्रा कुर्यादर्ध्यादिपूजनम् || २६२ धृतव्रतेति सूक्रेन तत्र नीराजनं द्विजः || २६३ स्नात्वा पूर्ववदभ्यर्च्य हुत्वा पुष्पाञ्जलिं तथा । आशिषोवाचनं कृत्वा भोजयेद् ब्राह्मणान् शुभान् ॥२६४ शाययित्वाऽथ देवेशं भुञ्जीयाद्वाग्यतः स्वयम् ।
एवं प्रतिदिनं कुर्यादुत्सवौं पञ्चवासरम् ॥२६५ अन्ते चावभृथेष्टि च पुष्पयागश्च कारयेत् । आचार्य मृत्विजो विप्रान् पूजयेद्दक्षिणादिभिः ॥ २६६ एवं क्षीराब्धियजनं प्रत्यब्दं कारयेन्नृप । । स्वसम्यगर्थवृद्धयर्थं भोगाय कमलापतेः || २६७ वृद्धर्थमपि राष्ट्रस्य शत्रूणां नाशनाय च । सर्वधर्मविवृद्धयथं क्षीराब्धियजनं चरेत् । तत्र दुर्भिक्षरोगामिपापबाधा न सन्ति हि ॥ २६८. गावः पूर्णदुघा नित्यं बहुलस्य फलाधरा । पुष्पिताः फलिता वृक्षा नार्यो भर्तृपरायणाः ॥ २६६ आयुष्मन्तश्च शिशवो जायते भक्तिरच्युते । यः करोति विधानेन यजनं जलशायिनः ॥ २७० क्रतुकोटिफलं तत्र प्राप्नोत्येव न संशयः । यस्त्विदं शृणुयान्नित्यं क्षीराब्धियजनं हरेः || २७१

Page Navigation
1 ... 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696