Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 661
________________ १२०० वृद्धहारीतस्मृतिः । यत्र गावो भूरिशृङ्गाः साऽयोध्या देव पूजिता । अनन्तव्यूहलोकैश्च तथा तुल्य शुभावहैः ॥ ३२७ सर्ववेदमय तत्र मण्डपं सुमनोहरम् । सहस्रस्थूणसदसि ध्रुवे रम्योत्तरे शुभे ॥ ३२८ तस्मिन् मनोरमे पीठे धर्माद्यैः सूरिभिर्वृते । सहाऽऽसीनं कमलया दृष्ट्वा देवं सनातनम् ॥३२६ स्तुतिभिः पुष्कलाभिश्च प्रणम्य च पुनः पुनः । प्रहर्षपुलको भूत्वा तेन चाऽऽलिङ्गितः क्रमात् ॥ ३३० पूजितः सकलैर्भोगैः श्रिया चापि प्रपूजितः । अनन्तविहगेशाद्य रचितः सवदेव तैः ||३३१ तेषामन्यतमो भूत्वा मोदते तत्र देववत् । एषु केषु च लोकेषु तिष्ठते कमलापतिः ।। ३३२ तेषु तेष्वपि देवस्य नित्यदासो भवेत्सदा । दासवत्पुत्रवत्तस्य मित्रवद् बन्धुवत् सदा ||३३३ अश्नुते सकलान् कामान् सह तेन विपश्चिता इमान् लोकान् कामभोगः कामरूप्यनुसञ्चरन् ॥ ३३४ सर्वदा दूरविध्वस्तदुःखावेशलव शिकः । गुणानुभवजप्रीत्या कुर्याद्दानमशेषतः || ३३५ इवमेव परं मोक्षं विदुः परमयोगिनः । काङ्क्षन्ति परमं दासा मुक्तमेकं महर्षयः ||३३६ हरेर्दास्यैकपरमां भक्तिमालम्ब्य मानवः । sta मुक्तो राजर्षे । सर्वकर्मनिषन्धनः ||३३७ [ सप्तमो इति वृद्धहारीतस्मृतौ विशिष्ट परमधर्मशास्त्रे नानाविधोत्सवविधानं नाम सप्तमोऽध्यायः ।

Loading...

Page Navigation
1 ... 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696