Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 648
________________ भ्यायः] नानाविधोत्सवविधानवर्णनम् । ११८७ वैष्वक्सेनी ततो वक्ष्ये सर्वपापप्रणाशिनीम् । उपोष्यैकादशी शुद्धा पूर्ववत् पूजतेद्धरिम्॥१८४ तद्विष्णोरितिमन्त्राभ्यामुपचारैः समर्चयेत् । विष्वकसेनञ्च सेनेशं सेनान् पञ्च चमूपतिम् ॥१८५ अर्चयित्वा चतुर्दिक्षु शक्तयश्च विदिक्षु च। त्रयीं सूत्रवती सौम्यां सावित्री चार्चयेद्विजः॥ अनान् (दिगीशान्)दीपांश्च सम्पूज्य होमं पश्चात् समाचरेत् । १८६ कृत्वेष्माधानपर्यन्तमठमं मण्डलं यजेत् ।।१८७ पायसेनाथ पुष्पाणि दद्यात् प्रयतमानसः । अन्ते चावभृथेष्टिञ्च प्रसूनयजनं तथा ॥१८८ ब्राह्मणान् भोजयेच्छत्तया दक्षिणाभिश्च तोषयेत् । अशक्तो यस्तु वेदेन कर्तुमिटिश्च वैष्गवः।।१८६ तद्विष्गोरिति मन्त्राभ्यां सहस्र जुहुयाचरम् । कृत्वा पुष्पाञ्जलिञ्चापि सम्यगिष्टिं लभेन्नरः ॥ १६० वष्वक्सेनी मिमा हुत्वा विष्वक्सेनसमो भवेत् । प्रभूतधनधान्याढ्यमैश्वयं चैव विन्दति ।।१६१ यक्षराक्षसभूतानां तामसानां दिवौकसाम् । अभ्यचने तदोषस्य विशुद्धयर्थमिदं यजेत् ॥१९२ सौदर्शनी प्रवक्ष्यामि सर्वपापप्रणाशिनीम् । व्यतीपाते वैधृतौ वा समुपोष्यार्चयेद्धरिम् ।।१६३ अखण्डबिल्वपत्रैर्वा कोमलै स्तुलसीदलैः । अर्चयित्वा हृषीकेशं गन्धपुष्पाक्षतादिभिः ॥१६४

Loading...

Page Navigation
1 ... 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696