________________
भ्यायः] नानाविधोत्सवविधानवर्णनम् । ११८७
वैष्वक्सेनी ततो वक्ष्ये सर्वपापप्रणाशिनीम् । उपोष्यैकादशी शुद्धा पूर्ववत् पूजतेद्धरिम्॥१८४ तद्विष्णोरितिमन्त्राभ्यामुपचारैः समर्चयेत् । विष्वकसेनञ्च सेनेशं सेनान् पञ्च चमूपतिम् ॥१८५ अर्चयित्वा चतुर्दिक्षु शक्तयश्च विदिक्षु च।
त्रयीं सूत्रवती सौम्यां सावित्री चार्चयेद्विजः॥ अनान् (दिगीशान्)दीपांश्च सम्पूज्य होमं पश्चात् समाचरेत् । १८६
कृत्वेष्माधानपर्यन्तमठमं मण्डलं यजेत् ।।१८७ पायसेनाथ पुष्पाणि दद्यात् प्रयतमानसः ।
अन्ते चावभृथेष्टिञ्च प्रसूनयजनं तथा ॥१८८ ब्राह्मणान् भोजयेच्छत्तया दक्षिणाभिश्च तोषयेत् । अशक्तो यस्तु वेदेन कर्तुमिटिश्च वैष्गवः।।१८६ तद्विष्गोरिति मन्त्राभ्यां सहस्र जुहुयाचरम् । कृत्वा पुष्पाञ्जलिञ्चापि सम्यगिष्टिं लभेन्नरः ॥ १६० वष्वक्सेनी मिमा हुत्वा विष्वक्सेनसमो भवेत् । प्रभूतधनधान्याढ्यमैश्वयं चैव विन्दति ।।१६१ यक्षराक्षसभूतानां तामसानां दिवौकसाम् । अभ्यचने तदोषस्य विशुद्धयर्थमिदं यजेत् ॥१९२ सौदर्शनी प्रवक्ष्यामि सर्वपापप्रणाशिनीम् । व्यतीपाते वैधृतौ वा समुपोष्यार्चयेद्धरिम् ।।१६३ अखण्डबिल्वपत्रैर्वा कोमलै स्तुलसीदलैः । अर्चयित्वा हृषीकेशं गन्धपुष्पाक्षतादिभिः ॥१६४