Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
११६०
वृद्धहारीतस्मृतिः । उपोष्यान्तजले स्थित्वा वासुदेवमनुं शुभम् । जपेद्वादशसाहस्रं गोघ्नः प्रयतमानसः ।। ३४१ असंख्यानि च पापानि अनुक्तान्यपि यानि च । चित्तस्थो भगवान् कृष्णः सर्वं हरति तत्क्षणात् ॥३४२ एकादश्युपवासस्य फलं प्राप्नोति मानवः । आषाढ़ादिचतुर्मासे कृते भुक्ता जितेन्द्रियः ||३४३ दुग्धाब्धौ शेषपर्यङ्क शयानं कमलापतिम् । ध्यात्वा समर्चयेन्नित्यं महद्भिर्मुच्यते ह्यः || ३४४ इति रहस्यप्रायश्चित्तवर्णनम् ।
अथ महापापादिप्रायश्चित्तप्रकरणवर्णनम् । रजस्वलां सूतिकाभ्व चण्डालं पतितं तथा ।। ३४५ पाषण्डिन' विकर्मस्थं शैवं स्पृष्ट्राऽध्यकामतः । गोमयेनानुलिप्ताङ्गः सवासा जलमाविशेत् ||३४६ गायत्र्यष्टशतं जप्त्वा घृतं प्राश्य विशुध्यति । स्पृष्ट्वा तु कामतः स्नात्वा चरेत्सान्तपनं व्रतम् ॥३४७ श्वपचं पतितं स्पृष्टा गोपालव्यजनादृतम् । विवराहं शुनङ्काकं गर्दभं यूपमेव च ॥ ३४८ मय' मासं तथैवोष्ट्र विण्मूत्रं दशमेव च । करकअलफेनश्च वृक्षनिर्यासमेव च ॥ ३४६
[ षष्ठो

Page Navigation
1 ... 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696