SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ ११६० वृद्धहारीतस्मृतिः । उपोष्यान्तजले स्थित्वा वासुदेवमनुं शुभम् । जपेद्वादशसाहस्रं गोघ्नः प्रयतमानसः ।। ३४१ असंख्यानि च पापानि अनुक्तान्यपि यानि च । चित्तस्थो भगवान् कृष्णः सर्वं हरति तत्क्षणात् ॥३४२ एकादश्युपवासस्य फलं प्राप्नोति मानवः । आषाढ़ादिचतुर्मासे कृते भुक्ता जितेन्द्रियः ||३४३ दुग्धाब्धौ शेषपर्यङ्क शयानं कमलापतिम् । ध्यात्वा समर्चयेन्नित्यं महद्भिर्मुच्यते ह्यः || ३४४ इति रहस्यप्रायश्चित्तवर्णनम् । अथ महापापादिप्रायश्चित्तप्रकरणवर्णनम् । रजस्वलां सूतिकाभ्व चण्डालं पतितं तथा ।। ३४५ पाषण्डिन' विकर्मस्थं शैवं स्पृष्ट्राऽध्यकामतः । गोमयेनानुलिप्ताङ्गः सवासा जलमाविशेत् ||३४६ गायत्र्यष्टशतं जप्त्वा घृतं प्राश्य विशुध्यति । स्पृष्ट्वा तु कामतः स्नात्वा चरेत्सान्तपनं व्रतम् ॥३४७ श्वपचं पतितं स्पृष्टा गोपालव्यजनादृतम् । विवराहं शुनङ्काकं गर्दभं यूपमेव च ॥ ३४८ मय' मासं तथैवोष्ट्र विण्मूत्रं दशमेव च । करकअलफेनश्च वृक्षनिर्यासमेव च ॥ ३४६ [ षष्ठो
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy