________________
ऽध्यायः] . महापापादिप्रायश्चित्तप्रकरणवर्णनम् । ११६१
करच लशुनश्चानुगच्छति स्वस्य शुद्धये। सचैलमेकवाह्यापः सावित्री त्रिशतं जपेत् ॥३५० तत्पृष्टस्पृष्टिनी स्पृष्टवा सवासा जलमाविशेत् । ऊर्ध्वमाचमन प्रोक्तं धर्मविद्भिरकल्मषैः। .. उच्छिष्टकेशभस्मास्तिकपालं मलमेव च ॥३५१ मानार्द्रधरणीञ्चैव स्पृष्टा स्नान समाचरेत् । प्रक्षाल्य पादौ संक्रम्य तथैवाऽऽचम्य वारिणा ।।३५२ मन्त्रसन्मार्जितजल स्पृष्टा ताश्च विशुध्यति । विशिष्टानाञ्च विप्राणां गुरूणां व्रतशालिनाम् ॥३५३ विनीततराणामुच्छिष्टं स्पृष्टा स्नान समाचरेत् । शैवानां पतितानाच वाह्यानान्त्यक्तकर्मणाम् ॥३५४ उच्छिष्टस्पर्शनं कृत्वा चरेश्चान्द्रायणं व्रतम् । उच्छिष्टेन स्वयं चान्यमुच्छिष्टं ययकामतः ।।३५५ स्पृष्टा सचैलं स्नात्वा च सावित्र्यष्टशतं जपेत् । कामतश्चाऽऽचरेत् कृच्छ्रे ब्रह्माकूचं द्विजोत्तमः ॥३५६ राजानश्च विशं शूद्र चरेश्चान्द्रायण द्विजः । तौ च स्नात्वा चरेत् कृच्छ्रे गां वा दद्यात्पयस्विनीम् ॥३५७ उच्छिष्टिनं स्पृशन् शूद्रमुच्छिष्टं श्वानमेव वा। सवासा जलमाप्लुत्य चरेत्सान्तपनब्रतम् ।।३५८ तत्रापि कामतः मादा पराकद्वयमाचरेत् । पञ्चगव्यं पिबेच्छूद्रः स्नात्वा नद्यां विधानतः ।।३५६