________________
११६२
वृद्धहारीतस्मृतिः ।
चण्डालं पतितं मद्यं सूतिकाश्च रजस्वलाम् । उच्छिष्टेन तु संस्पृष्टः पराकत्रयमाचरेत् || ३६० उच्छिष्टेन चिरं काल मुषित्वा स्नानमाचरेत् । उच्छिष्टा शौचमरणे चरेदब्दं द्विजातयः || ३६१ रजस्वला सूतिका वा पञ्चत्वं यदि चेद् गता । पञ्चगव्यैः स्नापयित्वा पावमान्यैर्द्विजोत्तमाः || ३६२ प्रत्यूचं कलशैः स्नाप्य सपवित्रैजलैः शुभैः । शुभ्रवस्त्रेण सम्बेष्ट्य दाहं कुर्याद्विधानतः ॥ ३६३ चण्डालात् ब्राह्मणात्सर्पात् क्रव्यादादुदकादिभिः । हतानामपि कुर्वीत पूर्ववद् द्विजपुङ्गवः ॥ ३६४ तत्रापि कामतः कुर्यात् षडब्दं तस्य बान्धवाः । विषाद्यैर्घनशस्त्राद्यैरात्मानं यदि घातयेत् ॥ ३६५ गोशतं विप्रमुख्येभ्यो दद्यादेकं वृषं तथा । नारायणबलिं कृत्वा सर्वमप्यौर्ध्वदेहिकम् || ३६६ रजस्वला तु या नारी स्पृष्ट्वा चान्यां रजस्वलाम् । चण्डाल' पतितं वाऽपि शुन गर्दभमेव च ॥ ३६७ तावत्तिष्ठेन्निराहारा चरेत्सान्तपनं व्रतम् । स्पष्ट्वाऽप्यकामतः स्नात्वा पञ्चगव्यैः शुभैर्जलैः || ३६८ चातुर्वर्णस्य गेहेषु चण्डालः पतितोऽपि वा । अन्तर्वनी भवेत्सा चेत्कथं स्यात्तत्र निष्कृतिः ।।३६६ तद्गृहन्तु परित्यक्ता दग्ध्वा वाऽन्यत्र संस्थितः । सर्वोक्तप्रकारेण प्रायश्चित्तं समाचरेत् ॥ ३७०
[ षष्ठो