________________
ऽध्यायः] महाफपादिप्रायश्चित्तवर्णनम्। ११६३
पथक् पथक् प्रकुर्वीरन् सर्वे गृहनिवासिनः । दाराः पुत्राश्च सुहृदः प्रायश्चित्तं यथोदितम् ॥३७१ सभर्तृ काणां नारीणां वपनन्तु विवर्जयेत् । .. सर्वान् केशान् समुद्र त्य च्छेदयेद्ङ्गुलित्रयम् ॥३७२ केशानां रक्षणार्थाय द्विगुणं व्रतमाचरेत् । प्रायश्चित्ते तु सम्पूर्णे कृत्वा सान्तपन व्रतम् ।।३७३ ब्रह्मकू!पवासं वा विशुध्यन्ति तदेनसः। अक्सिम्वत्सरार्धात्तु गृहदाहं न चोदितम् ॥३७४ यद्गृहे पातकोत्पत्ति स्तत्र यत्नेन दाहयेत् । त्यजेद्वा संनिकृष्टाञ्च शुद्धिज्चैवाऽऽत्मनस्ततः ।।३७५ सम्बन्धाश्चैव संसर्गात्तुल्यमेव नृणामघम् । तस्मात्संसर्गसम्बधान् पतितेषु विवर्जयेत् ॥३७६ चण्डालपतितादीनां तोयं यस्तु पिवेन्नरः । पराकं कामतः कुर्याद् ब्रह्मकूर्चमकामतः॥३७७ अभ्यासे तु षडब्दं स्याच्चान्द्रायणमकामतः । चण्डालानां तडागे वा नदीनां तीर्थ एव वा ॥३७८ स्नात्वा पीत्वा जलं विप्रः प्राजापत्यमकामतः । कामतस्तु पराकं वा चान्द्रायणमथाऽपि वा ।।३७६ अभ्यासे तु व्रतं पूर्ण षडब्दं स्यादकामतः । सर्वेषां प्रतिलोमानां पीत्वा सन्तापनं चरेत् ।।३८० चान्द्रायणं पराकं वा व्यन्दं वाऽपि यथाक्रमम् । भोजने गमनेऽप्येवं प्रायश्चित्तं समाचरेत् ।।३८१