________________
११६४
वृद्धहारीतस्मृतिः। चाण्डालपतितादीनां गृहेष्वन्नमपि द्विजः । भुक्ताऽब्दमाचरेत् कृच्छ्रे चान्द्रायणमकामतः ॥३८२ चण्डालवाटिकायान्तु सुप्त्वा भुक्ताऽप्यकामतः । चरेत्सान्तपनं कृच्छू चान्द्रायणमथाऽपि वा ।।३८३ चण्डालवाटिकायान्तु मृतस्याब्दं विशोधनम् । स्नापनं पञ्चगव्यश्च पावमान्य शुभैजलैः ।।३८४ शूद्रानं सूतिकानं वा शुना स्पृष्टश्च कामतः । भुक्वा चान्द्रायणं कृच्छू पराकं वा समाचरेत् ॥३८५ जलं पीत्वा तयोविप्रः पञ्चगव्यं पिबेद् द्वयहम् । चण्डालः पतितो वाऽपि यस्मिन् गेहे समा(विशेताचरेत । त्यक्त्वा मृण्मयभाण्डानि गोभिः संक्रामयेत् त्र्यम् ॥३८६ मासादूचं दशाहन्तु द्विमासं पक्षमेव तु। षण्मासात्तु तथा मासं गवां वृन्दं निवेशयेत् ॥३८७ ऊर्ध्वन्तु दहनं प्रोक्तं लाङ्गुलेन च खातनम् । ब्रह्मकूर्च तथा कृच्छ् चान्द्रायणमथापि वा ।।३८८ अतिकृच्छ् पराकञ्च व्यब्द वाऽपि समाचरेत् । षडब्दमूवं षण्मासात्प्रायश्चित्तं समाचरेत् ॥३८६ वत्सरादूर्ध्वसम्पूर्ण व्रतमेवाऽऽचरेद् बुधः । अमेध्यशवचण्डालमद्यमांसादिदूषितात्॥३६० कूपादुद्धृत्य कलशैः सहस्र रेचयेज्जलम् । निक्षिप्य पञ्चगव्यानि वारुणैरपि मन्त्रयेत् ।।३६१