________________
ऽध्यायः] महापापादिप्रायश्चित्तवर्णनम्। ११६५
तडागस्यापि शुध्यथं गोभिः संक्रामयेज्जलम् । धान्यन्तु क्षालनाच्छुद्धिर्बाहुल्यं प्रोक्षणादपि ॥३६२ रसानान्तु परित्याग श्चाण्डालादिप्रदूषणात् । प्रासाददेवहाणां चण्डालपतितादिषु ॥३६३ अन्तः प्रविष्टेषु तदा शुद्धिः स्यात्केन कर्मणा । गोभिः संक्रमणं कृत्वा गोमूगेणैव लेपयेत् ॥३६४ पुण्याहं वाचयित्वाऽथ तत्तोयैदर्भसंयुतैः । सम्प्रोक्ष्य सर्वतः पश्चादेवं समभिषेचयेत् ।।३६५ पञ्चामृतैः पञ्चगव्यैः नापयित्वाऽथ वैष्णवः। प्रत्यूचं पावमान्यैश्च वैष्णवैश्वाभिषेचयेत् ।।३६६ अष्टोत्तरसहस्र वा शतमष्टोत्तरं तु वा। चतुर्भिर्वेष्णवैमन्त्रैः नाप्य पुष्पाञ्जलिं तथा ।।३६७ श्रीसूक्तेन तदा दिव्यैर्दवानीराजनं ततः । अवैष्णवस्पर्शनेऽपि एवं कुर्वीत वैष्णवः । भिने विम्बे तथा दग्धे परित्यत्वैव तं गृहे ।।३६८ वैदेही वैष्णवीमिष्टा पुनः स्थापनमाचरेत् । चोराचपहते नष्टे वासुदेवीं यजेबरुम् ।।३६६ स्थानान्तरगते बिम्बे पुनः स्थापनमाचरेत् । खोयाधिवासनं वेद्यामधिरोहणमेव च ।४०० नयनोन्मीलनं दीक्षा वर्जयित्वाऽन्यमाचरेत् । पञ्चगव्यैः सापयित्वा पञ्चत्वपल्लवाचितः ।।४०१