SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ १.१६६ [ षष्ठो वृद्धहारीतस्मृतिः । मङ्गलद्रव्यसंयुक्तैरद्भिः समभिषेचयेत् । सूक्तेश्च ब्राह्मणस्पत्ये रविगैवैष्णवीस्तथा ॥४०२ चतुभिर्वेष्णवैर्मन्त्रैः पृथगष्टोत्तरं शतम् । वैष्णव्या चैव गायत्र्या शङ्खन तापयेद् बुधः || ४०३ ध्रुवसूक्तमृचं स्मृत्वा जपन् संस्थापयेद्धरिम् । ततस्तन्मूर्तिमन्त्रेण मूलमन्त्रेण वा द्विजः ||४०४ दद्यात् पुष्पसहस्राणि देवतां स मनु स्मरन् | पश्चात् सावरणं विष्णोरर्चयित्वा विधानतः || ४०५ इन्द्रसोमं सोमपतेरिति सूक्तमनुत्तमम् । जपन् भतयाऽथ देवैस्तु दद्यान्नीराजनं द्विजः ॥४०६ प्रदक्षिणं नमस्कारं कृत्वा विप्रास्तु भोजयेत् । अवैष्णवेन विप्रेण शूद्रेणैवार्चिते हरौ ॥ ४०७ सहस्रमभिषेकं च पुष्पाञ्जलिसहस्रकम् । महाभागवतो विप्रः कुर्यान्मन्त्रद्वयेन च ॥ ४०८ देवतोत्तरसम्पर्क विना स्वाहरणं हरौ । अवैष्णवानां मन्त्राणां पकान्नस्य निवेदने ॥ ४०६ कृत्वा नारायणीमिष्टिं पुनः संस्कारमाचरेत् । देशान्तरगते बिम्बे चिरकालमनर्चिते ||४१० अधिवासादिकं सर्वं पूर्ववद्वैष्णवोत्तमः । विष्णोरुत्सवमध्ये तु विद्युत् स्तनितसम्भवे ||४११ रथे बिम्बे ध्वजे भग्ने बिम्बे च पतिते भुवि । ग्रामदाहेऽश्मवर्षे च गुरावृत्विजि वै मृते ॥ ४१२
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy