Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
ऽध्यायः] महापातकादिप्रायश्चित्तवर्णनम् । ११४६
प्रयागे सेतुबन्धादिपुण्यक्षेत्रेषु पापकृत् । तत्र वर्षादि विज्ञाप्य स्वस्वकल्पमशेषतः ।।२२६ तत्रस्थैर्ब्राह्मणैरेवानुज्ञातो व्रतमाचरेत् । चत्वारो ब्राह्मणाः शिष्टाः पर्षदित्यभिधीयते ।।२२७ से रुक्तमाचरेद्धर्ममेको वाऽध्यात्मवित्तमः । जटी वल्कलवासाश्च बहिरेव समाविशन् ।।२२८ स्नानं त्रिषवणं कुर्वन् क्षितिशायी जितेन्द्रियः । एकभुक्तेन नक्तेन फलैरनशनेन च ।।२२६ समापयेत्कर्मफलं यथाकालं यथाबलम् । राममिन्दीवरश्याम पौलस्त्यघ्नमकल्मषम् ।।२३० ध्यात्वा षडक्षरं मन्त्रं नित्यं तावदहनिशम् । एवं द्वादशवर्षाणि पुण्यतीर्थे समाचरन् ।।२३१ मुच्यते ब्रह्महत्याया स्तपसा वीतकल्मषः । चरितव्रत आयाते यवसं गोषु दापयेत् ।।२३२ तै स्तस्य च सुसंस्काराः कर्तव्या बान्धवैर्जनैः । विप्रमुख्याय गां दत्वा ब्राह्मणान् भोजयेत्ततः ।।२३३ प्रारम्भवतमध्ये तु यदि पञ्चत्वमाप्नुयात् । विशुद्धिस्तस्य विज्ञेया शुभाङ्गतिमवाप्नुयात् ।।२३४ असंस्कृतस्तु गोषु स्यात् पुनरेव व्रतं चरेत् । अशक्तस्तु वते दद्याद् गोसहस्रं द्विजन्मनाम् ॥२३५ पात्रे धनं वा पर्याप्त दत्त्वा शुद्धिमवाप्नुयात् । ब्रह्महत्यासमेष्वेवं कामतो वतमाचरेत् ।।२३६

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696