SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] वैष्णवेष्टिक्रियात:श्राद्धपर्यन्तविधिवर्णनम् । ११४१ तस्माद्भागवतश्रेष्ठमेकं वाऽपि सुपूजयेत् । हरिश्च देवताश्चैव पितरश्च महर्षयः ।।१४२ तस्मिन् सम्यूजिते विप्रे तुष्यन्त्येव न संशयः । अर्चनं मन्त्रपठनं ध्यानं होमश्च वन्दनम् ॥१४३ मन्त्रार्थचिन्तनं योगो वैष्णवानाञ्च पूजनम् । प्रसादतीर्थसेवा च नवेज्याकर्म उच्यते । पञ्चसंस्कारसम्पन्नो नवेज्याकमकारकः ॥१४४ आकारत्रयसम्पन्नो महाभागवतोत्तमः । श्राद्धानामन्यलाभे तु एकं नारायणं बलिम् ॥१४५ कुर्वीत परया भक्त्या वैकुण्ठपदमाप्नुयात् । नित्यञ्च प्रतिमासश्च पित्रोः श्राद्धं विधानतः ॥१४६ सोदकुम्भ प्रदद्यात्तु याव (दान्तिक) दिष्ट्यान्तिकं द्विजः । प्रत्यब्दं पार्वणश्राद्धं मातापित्रोमृतेऽहनि ।।१४७ अर्चयित्वाऽच्युतं भक्त्या पश्चात् कुर्याद्विधानतः । वैष्णवानेव विप्रांस्तु सर्वकर्मसु योजयेत् ।।१४८ सर्वत्रावैष्णवान् विप्रान् पतितानिव सन्यजेत् । शङ्खचक्रविहीनास्तु देवतान्तरपूजकाः । द्वादशीविमुखा विप्राः शैवाश्चावैष्णवाः स्मृताः ।।१४६, अवैष्णवानां संसर्गात् पूजनाद्वन्दनादपि । यजनाध्यापनात्सद्यो वैष्णवत्वाच्च्युतो भवेत् ।।१५० श्रुतिस्मृत्युदितं धर्म नातिक्रम्याऽऽचरेत्सदा । स्वशाखोक्तविधानेन वैकुण्ठाचनपूर्वकम् ॥१५१
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy