________________
१९४२
वृद्धहारीतस्मृतिः ।
कर्तृत्वफलसङ्गित्वे परित्यज्य समाचरेत् ।
धर्मस्य कर्ता भोक्ता च परमात्मा सनातनः ।। १५२ अधर्म मनसा वाचा कर्मणाऽपि त्यजेत्सदा । अंकृत्यकरणाद्विप्रः कृ यस्याकरणादपि ॥ १५३ अनिग्रहाच्चेन्द्रियाणां सद्यः पतनमृच्छति । अनिशं मनसा यस्तु पापमेवाभिचितयेत् ॥१५४ कल्पकोटिसहस्राणि निरयं वै स गच्छति । यस्तु वाचा वदेत्पाप मसत्यकथनादिकम् ॥१५५ कल्पायुतसहस्राणि दिर्यग्योनिषु जायते । यस्त्वधं कुरुते नित्यं चापल्यात्करणादिभिः ।। १५६ युगकोटिसहस्राणि विष्ठायां जायते क्रिमिः । दान्तः शुचि स्तपस्वी च सत्यवाग्विजितेन्द्रियः ॥ १५७ स सात्त्विकः शमयुतः सुरयोनिषु जायते । यस्त्वर्थकामनिरतः सदा विषयचापलः || १५८ स राजसो मनुष्येषु भूयो भूयोऽभिजायते । क्रोधी प्रमादवान् तो नास्तिको विपरीतवाक् ॥१५६
[ षष्ठो
निद्रालु स्तामसो याति बहुशो मृगपक्षिताम् । महापापश्चातिपापं पातकभ्वोपपातकम् । प्रासङ्गिकं नरः कृत्वा नरकान् याति दारुणान् ॥१६० तामिस्र मन्धतामिस्रं महारौरवरौखौ । सङ्घातः कालसूत्रश्च पूयशोणितकर्दमम् ॥१६१