________________
ज्यायः] महापातका दिप्रायश्चित्तवर्णनम् । १९४३
कुम्भीपाकं लोहशङ्कुरतथा विण्मूत्रसागरः । तप्तायसास्त्रयो बोरा स्तप्तायसमयं गृहम् ॥१६२ शय्या तप्तायसमयी पानकञ्चाग्निसन्निभम् । शूलमुद्गरसङ्घातं काकककोलदंशितम् ॥१६३ सिंहव्याघमहानागभीकरं सम्प्रतापनम् । क्रिमिराशिमहाज्वालं तथा विण्मूत्रभोजनम् ॥१६४ असिपत्रवनं घोरं तपाङ्गारमयी नदी। सञ्जीवनं महाघोरमित्याद्या नरकाः स्मृताः ।।१६५ महापातकोरेरुपपातकजैरपि। व्रजतीमान् महाघोरान् दुर्वृत्तैरन्वितश्च यः ॥१६६ प्रायश्चित्तरपैत्येनो यदकार्यकृतं महत। कामतस्तु कृतं यत्तु मरण सिद्धि मृच्छति ।।१६७ ब्रह्महत्या सुरापानं विप्रस्वर्णस्य हारणम् । गुरुदाराभिगमनं तत्संयोगश्च पञ्चमः। संलापात् स्पर्शनाद्वासा(सोद)देकशय्यासनाशनात् ॥१६८ सौहार्दाद्वीक्षणाद्दानात्तेनैव समतां व्रजेत् । गुर्वाक्षेपस्त्रयीनिन्दा सुहृदाम्वध एव च ॥१६६ ब्रह्महत्यासमं ज्ञेयमधीतस्य च नाशनम् । यागस्थ क्षत्रिय वैश्य विशिष्टं शूद्रमेव च ।।१७० शरणागतं स्वामिनं च पितरं भ्रातरं गुरुम् । पुत्रं तपस्विनं शिष्य भार्या तेषां च सर्वतः ॥१७१