SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ [षष्ठो वृद्धहारीतस्मृतिः। अन्तर्वत्नी स्त्रियो गाश्च तथाऽऽत्रेयी रजस्वलाः । देवताप्रतिमा साध्वीं बालांश्चैव तपस्विनीम् ।।१७२ घातयित्वा समाप्नोति ब्रह्महत्यां न संशयः। जैह्मयमात्मस्तवं क्रूरं निषिद्धानां च भक्षणम् ॥१७३ रजस्वलामुखास्वादः पञ्चयज्ञादिवर्जनम् । अनृतं कूटसाक्षी च महायन्त्रप्रवर्तनम् ।।१७४ आकर्षणादि षट्कर्म लाक्षालवणविक्रयः । पाषण्डकल्ककुहकवेदवाह्यविधिक्रिया ॥१७५ यक्षराक्षसभूतानामर्चनं वन्दनं तथा । . वक्त्रेणैवाम्बुपानञ्च सुरापस्त्रीनिषेवणम् ॥१७६ गवां निष्पीडनं क्षीरं ताम्रस्थं गव्यमेव च । पात्रान्तरगतं यत्तु नारिकेलफलाम्बु च ।।१७७ तालहिन्तालमाधूकफलानां रसमेव च ! खरोष्ट्रमानुषीक्षीरं सुरापानसमानि वै॥१७८ मानकूट तुलाकूटं निक्षेपहरणानि च । भूरत्ननारीहरणं रसान्नस्तेयमेव च ॥१७६ गुडकार्पासलवणतिलकान् सामिषाम्बु च । का(कु)प्यवस्त्रे च हत्वा च लोहाना हरणं तथा ।।१८० विषाग्निदाहनं चैव सुवर्णस्तेयसम्मितम् । सखी भार्या कुमारी च सगोत्रा शरणागता ॥१८१ साध्वी प्रव्रजिता राज्ञो निक्षिप्ता च रजस्वला । वर्णोत्तमा तथा शिष्या भार्या भ्रातृपितृव्ययोः ॥१८२
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy