________________
ऽध्यायः] महापातकादिप्रायश्चित्तवर्णनम् । ११४५
मातामही पितामही पितुर्मातुश्च सोदराः। अन्या मा(भ्रा)तव्यदुहिता मातुलानी पितृष्वसा ॥१८३ जननी भगिनी धात्री दुहिताऽऽचार्यभामिनी । स्नुषाऽऽचार्यसुता चैव तत्पत्नी सुमहातपाः ॥१८४ मातुः सपत्नी सार्वभौमी दीक्षिता चैव भामिनी । कपिला महिषी धेनुर्देवताप्रतिमा तथा ।।१८५ आसामन्यतमाङ्गच्छेद् गुरुतल्पग उच्यते । महापातकिनामत्र तत्संयोगिन एव च ।।१८६ प्रायश्चित्तं नास्ति तेषां भृग्वग्निपतन स्मृतम् । हीनवर्णाभिगमनं गर्भनौं भर्तृहिंसनम् ।।१८७ विशेषपतनीयानि स्त्रीणां पुंसां च यानि तु । स्त्रीशूद्रविक्षत्रवधो गोबालहनन तथा ॥१८८ फलपुष्पद्रुमाणां हि चोषधीनाञ्च हिंसनम् । वापीकूपतड़ागानां ध्वंसन ग्रामघातनम् ॥१८६ अभिचारादिकं कर्म सस्यध्वंसनमेव च । उद्यानारामहनन प्रपाविध्वंसन तथा ॥१६० मातापित्सुतत्यागो दारत्यागस्तथैव च । स्वाध्यायाग्निगुरुत्यागस्तथा धर्मस्य विक्रयः ।।१६१ कन्याया विक्रयश्चैव स्वाध्यायमद्यविक्रयः । परस्त्रीगमनञ्चैव परद्रव्यापहारणम् ।।१६२ तथा पुंसोऽभिगमनं पशूनां गमनं तथा । वृषक्षुद्रपशूनाञ्च पुंस्त्वविध्वंसनं तथा ॥१६३