________________
११४६
वृद्धहारीतस्मृतिः। [षष्ठोकन्याया दूषणं चैव गवां योनिनिपीड़नम् । मानुषाणां पशूनाश्च नासाद्यङ्गविभेदनम् ॥१६४ प्रामान्त्यजस्त्रीगमनं विज्ञेयमनुपातकम् । नित्यनैमित्तिकश्राद्धवर्जन पशुहिंसनम् ॥१६५ मृगपक्षिमहासर्पयादसा हननक्रिया। साधारणस्त्रीगमनं पल्यास्ये मैथुन तथा ॥१६६ पारवित्तं पारदाय निन्दितार्थोपजीवनम् । तथैवानाश्रमे वासो देवद्रव्योपजीवनम् ॥१६७ पयोदधितिलानाञ्च विक्रयं लवणक्रयम् । शाकमूलफलस्तेयमतिवद्ध्युपजीवनम् ।।१६८ निमन्त्रितातिक्रमणं दुष्प्रतिग्रहमेव च । ऋगानामप्रदानत्वं सन्ध्याकालातिवर्तनम् ॥१६६ वृथवाऽ.त्मपरित्यागः संग्रामे पलायिता। दुर्भाजन दुरालापं स्वधर्मस्य च कीर्तनम् ।।२०० परेषां दोषवचन परदारनिरीक्षणम् ।। नास्तिस्यं व्रतलोपश्व स्वाश्रमाचारवर्जनम् ।।२०१ असच्छास्त्राभिगमन व्यसनान्यात्मविक्रयः । ब्रात्यतात्मार्थवचनमेकैकमुपपातकम् ।।२०२ इन्धनाथं दुमच्छेदः क्रिमिकीटादिहिंसनम् । .. भावदुष्टं कालदुष्टं क्रियादुष्टं च भक्षणम् ।।२०३ मृचर्मतृणकाष्ठाम्बुस्तेयमत्यशन तथा । अनृतं विषयचापल्यं दिवास्वप्नमसत्कथा ।।२०४