Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 8
________________ पत्र-पतिः २४ सटीकसप्तभङ्गी नयप्रदीपप्रकरणस्य विषयाङ्काः विषयाः आकाङ्क्षाविशेषनिवृत्त्यर्थ 'स्यादस्त्येव स्यान्नास्त्येव घटः' इति तृतीयभङ्गप्रवृत्तिः, तस्य विषय विशेषव्यवस्थापनेन प्रथम-द्वितीयभनाभ्यामगतार्थत्वं व्यवस्थापितम्। विलक्षणबोधजनकत्वात् तृतीयभङ्गस्य प्रथम-द्वितीयभङ्गाभ्यामगतार्थत्वमुपवर्णितम् । 'स्यादवक्तव्य एव घटः' इति तुरीयभङ्गस्यातीतभङ्गत्रयागतार्थत्वात् समर्थनम् । तुरीयभङ्गजन्यबोधस्य तद्विषयस्यावक्तव्यस्य च भिन्नत्वं स्वरूपोट्टङ्कनेन व्यवस्थापितम् । 'स्थादस्त्येव स्यादवक्तव्य एव घटः' इति पञ्चमभङ्ग. व्यवस्थापनं विषयातिरेकोपदर्शनेन । 'स्यानास्त्येव स्यादवक्तव्य एव घटः' इति षष्ठभजावश्यकत्वं दर्शितम् । 'स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्य एव घटः' इति सप्तमभङ्गावश्यकत्वं व्यवस्थापितम् । वक्तव्यत्वप्रतिपादकाष्टमभङ्गाशकोत्थाप्य प्रतिक्षिप्ता । खतन्त्रवक्तव्यत्वधर्माश्रयणेन सप्तभङ्गीप्रसिद्धिरुपपादिता। उक्तसप्तमभङ्गयामष्टमधर्मासम्भवानाष्टमभङ्गीसम्भव इति भावितम् । सप्तभनयाः कल्पितार्थबोधवैचित्र्यमात्रतैवेत्यस्य खण्डनम् । सप्तभनयाः प्रमाणवाक्यत्वोपपत्तये सकलादेशता. समाश्रयणम् । प्रतिभङ्गं सकलादेशवतः सप्तमायाः प्रमाणवाक्यत्वं दर्शितम्। ४७ २७ ५४

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 138