Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 33
________________ सङ्गीताध्याये प्रथमः पादः । सामवेदादिदे गीतं तंज्जग्राह पितामहः । : तद्ङ्गीतं नारवायैव तेन लोकेषु वर्णितम् ॥ १८ ॥ .. गीतेन प्रीयते देवः सर्वशः पार्वतीपतिः । • गोपीपतिरनन्तोऽपि वंशध्वनिवशं गतः ॥ १९ ॥ सामवेदे तो ब्रह्मा वीणासक्ता सरखती । अन्ये च बहवः पूर्वे यक्षदानवमानवाः ॥ २० ॥ अज्ञातहृदयखादुर्बालः पर्यङ्कधारकः । रुदन् गीतामृतं पीत्वा हर्षोत्कर्ष प्रपद्यते ॥ २१ ॥ वनेचरस्तृणाहारः श्रुत्वा मृगशिशुः पशुः । लुग्धो लुब्धकसङ्गीते गीते यच्छति जीवितम् ॥ २२ ॥ कृष्णसर्पोऽपि तं नादं श्रुत्वा हर्ष प्रपद्यते । तस्य गीतस्य माहात्म्यं कः प्रशंसितुमर्हति ॥ २३ ॥ सर्वाश्रमाणां जातीनां नृपाणां प्रीतिवर्धनम् । धर्मार्थकाममोक्षाणामिदमेव हि साधनम् ॥ २४ ॥ स्थायी खरेषु सवारी तथारोह्यवरोहको । स्वरातुर्विधा ज्ञेया रागोत्पादनगोचराः ॥ २५ ॥ खरा वादी च संवादी विवादी च चतुर्विधाः । अनुवादी च सर्वत्र प्रयोगे बहुशः स्मृतः ॥ २६ ॥ बादी खरस्तु राजा स्यान्मन्त्री संवादिरुच्यते । स्वरो विवादी वैरी स्यादनुवादी च भृत्यवत् ॥ २७ ॥ देवास्तु सगमाः पश्चमः पितृवंशजः । रिधौ ऋषिकुले जातौ निषादोऽसुरवंशजः ॥ २८ ॥ ब्रह्मजाती समौ ज्ञेयौ रिधौ क्षत्रियजातिको । निगौ वैश्याविति प्रोक्तौ पश्चमः शूद्रजातिकः ॥ २९ ॥ .. १ 'सजग्राह' इति पाठः समीचीनः । २ 'रतो' इति समीचीनः पाठः स्यात् । ३ स्मृताः" इति बहुवचनान्तः पाठः समीचीनः । ४ 'संवादी' इति शुद्धं पदं, छन्दोभन्नभिया 'संवादिः' इति रूपं कृतमिति भाति ।

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94