Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 52
________________ सङ्गीतमकरन्दे । सर्वेषां श्रुतिसंयुक्तमध्यक्तमधुरान्वितम् । - नावभीग्विषं श्रेष्ठमायुर्लक्षमीकरं जगुः ॥ ४॥ .. लक्षणं तु मृदङ्गस्य कथ्यते नारदेन च। चतुर्विशतिच्छन्दांसि धर्मग्रन्थीनि तानि च ॥५॥ अथ वीणालक्षणम् । कच्छपी कुन्जिका चित्रा वहन्ती परिवादिनी । जया घोषावती ज्येष्ठा नकुलीष्टेति कीर्तिता (१)॥६॥ महती वैष्णवी ब्रानी रौद्री कूर्मी च-रावणी। सारखती किनरी च सैरन्ध्री घोषका तथा ॥७॥ . दशवीणाः समाख्यातास्तत्रीविन्यासभेदतः। षत्रिंशदङ्गुली वीणा विस्तारः षशिरकुलैः ॥८॥ अथ वायविशेषः। मृदङ्गो दर्दुरश्चैव पणवस्वङ्गसंशिकः । शर्सरी पटहादीनि शम्भो मुखरिकास्तथा ॥९॥ शृङ्गं च कहला चेति सुषिरादिप्रकीर्तिताः। हरीतक्याकृतिस्त्वन्या एवमाधास्ततोगः (१)॥१०॥ आलिङ्गन्धैव गोपुच्छो मध्यदक्षिणवामगः । ढका डमरुगा मन्द्रा मडुशरडिण्डिमाः ॥११॥ उडुत्रिविधगुजा च कटकाकरणादयः। ध्वनिश्च विविधा शेया नारदेन कृता मताः॥१२॥ अथ खरादयः। नादोपासनया देवा ब्रह्मविष्णुमहेश्वराः। भवन्त्युपासिता नूनं तस्मादेतत्तदात्मकम् ॥ १३ ॥ .. आत्मा विवक्षमाणोऽयं मनः प्रेरयते मनः। देहस्था वह्निमहती स प्रेरयति मारुतः॥ १४ ॥ १°नकुली चेति इति अथवा 'जयघोषावती ज्येष्ठा नकुल्यष्टेति कीर्तिताः' इति पाठः शुद्धः स्यात् । २ 'काहला' इति सङ्गीतरत्नाकरादिग्रन्थान्तरे दृश्यते।

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94