Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 59
________________ २९, नृत्याध्याये प्रथमः पादः। अथ वैद्यलक्षणम् । पाण्डश्वासकफातिसारविषजाः कर्मज्वरा भूतजाः प्रेत्योद्रेककफोवा हिमभवा वातानशीतिः क्रमात्()। तिस्रो वैद्यकसंहितासु निपुणः शास्त्रेषु बोधात्मवान् दृष्टस्पृष्टविचित्ररोगहरणः सद्वैधधन्वन्तरिः ॥१७॥ अथ पुराणिकलक्षणम् । आलापोक्तिषु चातुर्य श्रुतिज्ञः सर्वशास्त्रवित् । पौराणिकः पुराणेषु कुशलः कथितो बुधैः ॥१८॥ अथ सभापतिलक्षणम् । अनेकशृङ्गारविचित्ररूपः । सर्वज्ञचातुर्यरसान्वितोऽसौ । सङ्गीतसाहित्यकलानुरक्तो निर्मत्सरो वाक्मुगुणैरुपेतः ॥ १९॥ तद्वामपार्श्वेऽपि पुराणभट्टाः तदक्षिणेऽमात्यपुरोहिताश्च । तत्पृष्ठभागेऽपि च कोषरक्षकः समीपविद्वत्कविबान्धवैयुतः ॥ २०॥ ततः सुविधाबहुलक्षणान्वितः कालप्रवीणो बहुजातकादिमत् (१)। ततो भिषग्दैवविदो समीपे . __संस्थापयेदक्षिणकोविदः क्रमात् ॥ २१ ॥ महीशवामे वरमश्रिमण्डलं . संस्थापयेत्सैन्यपति क्रमाच । पाचोभयोबन्दिभटप्रवीणा शृङ्गारगानज्ञवरान्कवींश्च ॥ २२ ॥ १प्रवीणान् इति शुद्धः पाठः स्यात् ।

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94