Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 58
________________ सङ्गीतमकरन्दे अथ कविलक्षणम् । शुचिर्दक्षः शान्तः सुजनविनतः सूनृततरः amraat विद्वानतिमृदुपदः काव्यचतुरः । रसज्ञो दैवज्ञः सरसहृदयः सत्कुलभवः शुभाकारश्छन्दोगुणगणविवेकी स च कविः ॥ ११ ॥ भटलक्षणम् । अनेकभाषासु विशेषबुद्धयो नृपालवंशावलिकीर्तनक्षमाः । • प्रबन्धविद्यापठने प्रवीणा महीशयोग्या मगधा महीतले ॥ १२ ॥ अथ गायकलक्षणम् । षाडवौडवसम्पूर्ण गायने जनरञ्जकाः । काकुवर्जितशारीरा गायका राजवल्लभाः ॥ १३ ॥ अथ परिहासकलक्षणम् । क्रियाङ्गभाषाङ्गसमस्तवञ्चनालसत्प्रसङ्गात्मिकवक्रयुक्तयः । प्रस्तावहास्योचितवाग्विलासा बुधैः प्रशस्ताः परिहासका (के) गुणाः ॥ १४ ॥ इतिहासज्ञलक्षणम् । पुराणैरवशिष्टायैः व्याख्यानकथने क्षमाः (?) । इतिहासविदः साक्षाद्गीतवाद्यविचक्षणाः ॥ १५ ॥ अथ ज्योतिषलक्षणम् । प्रतिप्रयाणान्बहुजातकादीन् ज्ञेयः सुसिद्धान्तविचारदक्षकः । ग्रहोपरागादिषु शुद्धलक्षणः स पण्डितो देवगुरोः समानः ॥ १३ ॥

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94