Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text
________________
सङ्गीतमकरन्दे ।
अङ्गतालाः कथ्यन्ते)। गुरवः षोडश ज्ञेया द्वात्रिंशल्लघवः पुनः। .. . चतुःषष्टिटुंताश्चैव तालो यक्षपतिर्भवेत् ॥ ३३ ॥ विरामार्धाधचन्द्रार्धमातृकात्रितयं तथा। व्यञ्जनं च लयं खण्ड लघुदन्यूँ दूतं ततः॥३४॥ अनुद्रुतद्वन्द्वलघुस्तालोऽयं वाचविनमः। इति सङ्गीतकैः प्रोक्तो द्राबडीदश विश्रुतः ॥३५॥: मरताले नकारः स्वागणो ल ततो लगः।. ततश्च विन्दवाव कल्पितं भचतुष्टयम् ॥३६॥. पुनर्मठभकारश्च निःशब्दं च गुरुद्धयम्।। आलापमध्ये चार्द्धन्दुः सूरिभिश्च चिरच्यते ॥ ३७॥ गुरुबहुकलायुक्ता प्लुतयुग्मं ततः परम् । ब्रह्मताले भवेत्सत्र नारदस्य मतं यतः ॥ ३८ ॥ प्लुतमेकं लघुद्धन्द्धं निःशब्दो लत्रयं भवेत्। द्रुतमल्प (१) मया प्रोक्तो लघून्याभ्यो निरूपितः ॥ ३९॥ गीतझम्पाख्यके ताले व्यञ्जनं दुतमिश्रलः। वाचं झम्पा विरामान्त्यं द्रुतद्वन्द्व च बन्धनम् ॥४०॥ ब्रह्माण्डतालेऽनुद्रुतो द्रुतसात्यं बकल्पनम् (१)। पद्रुतास्त्वविन्दुम लघुश्चैव द्रुतद्वयम् ॥४१॥ तनेदविन्दुलश्चैव ततो मिश्रलघुद्वयम् । . द्रुतद्वयं विरामान्त्यं रायकोलाहलः स्मृतः॥४२॥ द्रुतत्रयं लघुद्वन्द्वं त्रिरावृत्ता भका ततः। मातृकाद्वितयं चैव तालः प्रोक्तो महाशनिः ॥ ४३ ॥ अव्यक्तं व्यञ्जनं बिन्दु तिस्रो लघुः पुनः पुनः (१)। . व्यञ्जनं वलयं द्वन्द्वमव्यक्तं तिस्रलस्तथा ॥ ४४ ॥ तिमृलो व्यञ्जनो बिन्दु) तिसृमात्रेकमेव च । तिनाभेरिरिति प्रोक्तो वाचविद्याविशारदैः॥ ४५ ॥
१°दुतसाद्यन्त्यकल्पनं० इति स्यात् ।

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94