Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text
________________
सङ्गीतमकरन्दे पश्चतालप्रबन्धः स्याद्रुताद्यन्तं लुतश्चतुः (१)। तमसा पश्चलघुना षट्तालश्च प्रकीर्तितः ॥७॥ प्लुतो गुरू (कोलघुश्चैव सुलादिरभिधीयते । लघुरित्युच्यते तालं गीतज्ञैः पूर्वसूरिभिः ॥८॥ अष्टमङ्गलतालः स्यायोमाद्यन्तं नवद्रुतम्। यःहतो गलपो लोपो(प.) समगौ नवतालके ॥९॥ षड्भञ्जनं दीर्घषदं गुरुद्वन्द्वं लघुत्रयम्। .. दशरूपप्रबन्धः सात्रिंशन्मात्रं लघुस्तथा ॥१०॥ धरारसतनू भी मो लघुद्वादशविन्दः । निःशब्दो लन्च चखारताल एकादशे भवेत् ॥ ११॥ व्यानो (ने) सरलो दीर्घद्वादशसामसम्भवम् । गपव्योमयुतं चैव तालः स्यादर्कमालिका ॥ १२॥ . एतानि दशतालानि वाद्यन्ते श्रूयते नरैः। तत्पूर्वसर्वकार्येषु सर्वोत्कृष्टश्च जायते ॥१३॥ . विजयो जयमानन्दो जयश्रीर्जयमङ्गलम् । जयतालश्च पश्चैते श्रुत्यं (मृत्यु) जयकर शुभम् ॥ १४॥ लुतो गपो नगो राजौ जभव्योमद्वयं पुनः। पञ्चतालप्रबन्धः स्थाच्छ्राव्यं जयकरं शुभम् ॥१५॥ मदनोत्सवलक्ष्मीशक्रीडाकीर्तिस्तथा रतिः। सिंहलीलश्च सप्तैते मार्तण्डजयदः क्रमात् ॥ १६ ॥ चश्चत्पुटवाघुपुटः षट्पितापुत्रकस्तथा । प्रत्यङ्गो गजलीलश्च षट्तालश्च प्रबन्धकम् ॥ १७॥ धुवा मठा प्रतिमठा लम्बको रासकस्तथा। अष्टतालकतालः सुलादीत्युच्यते बुधैः ॥१८॥
लघुसुलादिः। रङ्गद्यूतो राजतालो वनमाली विधा मंतः। त्रिभङ्गी तालवृन्दं च नारदेन यथाक्रमम् ॥ १९ ॥

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94