Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 63
________________ नृत्याध्याये प्रथमः पादः । तत्पुरुषेत्युत्तरे च मुखे सामवेदोद्भवं तथा । सम्पद्वेष्टिक्रतालोऽयं तस्मात्सम्भवमुच्यते (१) ॥ ४६ ॥ गान्धर्वमिति संज्ञं च मणिवर्णप्रशंसितम् । रिगमा इति संज्ञं तु ऋषिभिः प्रतिपादितम् ॥ ४७ ॥ ईशानोर्ध्वमुखे जातः शास्त्रागमसमन्वितः । तस्मादुद्भव उद्धहस्तालोऽयं नामतः क्रमात् ॥ ४८ ॥ नानाजातिर्नीलवर्णो यतिः समयतिः क्रमात् । रुद्रपश्चमुखेभ्यश्च तालाः पञ्चविधा मताः ॥ ४९ ॥ ब्रह्महा व सुरापानी स्वर्णस्तेयी च तल्पगः । तत्संयोगी पञ्चमश्च येऽतिपातकिनः स्मृताः ॥ ५० ॥ तद्दोषपरिहारार्थं प्रायश्चित्तमुदीरितम् । गणैर्नन्दीश्वराचैश्च ऋषिभिर्नारदादिभिः ॥ ५१ ॥ आदितालादितालानामेकोत्तरशतं क्रमात् । शृण्वतां पातकहरं राज्ञां ऋतुफलं लभेत् (१) ॥ ५२ ॥ राज्याभिवृद्धिसन्तानं रणे शत्रुविनाशनम् । सौभाग्यारोग्यमतुलं कामशास्त्रविवर्धनम् ॥ ५३ ॥ लास्याङ्गे संपरिज्ञानं कलावेदिनमुत्तमम् (?) । सर्वसङ्गीतसुभगं नृपाणां कीर्तिवर्धनम् ॥ ५४ ॥ इति श्रीनारदकृतौ सङ्गीतमकरन्दे नृत्ताध्याये नाट्यशालासभासभापतिपात्रपुष्पाञ्जलिपभ्वतालोत्पत्तिनिरूपणं नाम प्रथमः पादः । नृत्याध्याये द्वितीयः पादः । सदाशिवो हरिर्ब्रह्मा भरतः कश्यपो मुनिः । मतङ्गो यश्च दुर्गा च शक्तिशार्दूलकोहलाः ॥ १ ॥ हनूमांस्तुम्बुरुचैव अङ्गदश्चैव नारदः । एते साहित्यसर्वज्ञा बुधास्तालान्प्रचक्रमुः ॥ २ ॥ ५ ३३

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94