Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 66
________________ ३६ सङ्गीतमकरन्दे । द्विला पो गगलो (ल.) पञ्चसिंहविक्रीडिते लपौ । द्वौ द्रुतौ लो द्रुतौ चैव वनमाली गुरुस्तथा ॥ २९ ॥ गुरुर्लघुद्रुतौ गुध वर्णः स्याच्चतुरस्रके । लघुद्रुतौ लघू गश्च तिस्रवर्णः प्रकीर्तितः ॥ ३० ॥ प्रतितूर्यविरामान्त्यं मिश्राख्यो द्वादशद्रुताः । तो गुरुदुतद्वन्द्वं द्वयं लो गुरुस्तथा ॥ ३१ ॥ रङ्गप्रदीपताले स्यान्तगणागतो यदि । गतौ द्रुतयुग्मं च हंसनादे प्रकीर्तितः (तम् ) ॥ ३२ ॥ यगणो लगुरुभैव सिंहनादो निरूपितः । ताले स्यान्मल्लिकामोदे गद्वयं लचतुष्टयम् ॥ ३३ ॥ लघुद्रुतचतुष्कं स्याल्लघुः शरभलीलके । तगणो लो सुतौ गध रङ्गाभरणसंज्ञके ॥ ३४ ॥ तुरङ्गलीलताले स्याद्भुतद्वन्द्वं लघुस्तथा । तपा लगद्रुतौ गालपलपालच लद्वयम् ॥ ३५ ॥ . निषद्धं (निःशब्द) लचतुष्कं स्यात्ताले स्यात्सिंहनन्दने । रगणों लगुरुश्चैव जयश्रीरिति गण्यते ॥ ३६ ॥ भवेयुर्विजयानन्दे लद्वयं गुरवस्त्रयः । ललितौ प्रतिताले स्याद्वतौ लब्ध द्वितीयके ॥ ३७ ॥ मकरन्दे द्रुतद्वन्द्वं लघुत्रयमतो गुरुः । लगौ पगौ लपौ गश्ध कीर्तिताले प्रकीर्तितः ॥ ३८ ॥ लुतो गध हुतो गध ताले विजयसंज्ञके । सकारश्च सकारश्च जयमङ्गलनाम च ॥ ३९ ॥ लघुबो द्रुतौ ताले राजविद्याधराभिषे । सकारो मण्ठताले स्यात्कल्पितं चचतुष्टयम् (१) ॥ ४० ॥ भारो रोघो गुरुद्वन्द्वं निःशब्द मठतालके । अथवा नगणो जश्च लघुश्चैव प्रकीर्तितः ॥ ४१ ॥ जगणो लो द्रुतौ पश्च जयताले निरूपितः । द्रुतद्वयं लघुद्वन्द्वं भवेत्ताले कुडुक्कके ॥ ४२ ॥

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94