Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 62
________________ सङ्गीतमकरन्दे . अथ पुष्पाञ्जलिः। . ब्रह्मा तालधरो हरिश्च पटही वीणाकरी भारती वंशज्ञौ शशिभास्करौ श्रुतिधराः सिद्धाप्सराः किन्नराः। नन्दीभृङ्गिरिटादिमर्दलधराः सङ्गीतको नारदः शम्भोर्चत्तकरस्य मङ्गलतनो व्यं सदा पातु नः ॥ ३७ ॥ लक्ष्मीस्ते सदने सदा निवसतां चित्ते च चिन्तामणिः । खर्धेनुस्तव गोकुले सुरतरुश्वारामभूमौ तव । वाणी ते वदने दया नयनयोदानं करे तेऽन्वहं विष्णुश्चेतसि ते मतिश्च सुकृते कीर्तिश्च लोकत्रये ॥ ३८ ॥ इन्दु कैरविणीव कोकपर्टरीवाम्भोजिनीबान्धर्व .. मेघं चातकमण्डलीव मधुपश्रेणीव पद्माकरम् । माकन्दं पिकसुन्दरीव रमणीवात्मेश्वरं प्रोषितं चेतोवृत्तिरियं मम क्षितिपते स्वां द्रष्टुमुत्कण्ठते ॥ ३९॥ . इति पूर्वपुष्पाञ्जलिः। अथ पञ्चतालोत्पत्तिनिरूपणमाह । सदाशिवमुखोद्भूतास्तालाः पञ्चविधाः स्मृताः। सद्योजातमुखात्पूर्वमृग्वेदादुद्भवस्तथा ॥४॥ तस्माचश्चत्पुटो ज्ञेयः कान्तिर्गोक्षीरवर्णकः । ब्रह्मजातिसमाख्यातो गोपुच्छ इति संज्ञकः ॥४१॥ वासदेवे दक्षिणे च मुखे याजुषसम्भवम् । तस्माचा पुटाख्यं (1) हि तालः क्षत्रियजातिकः ॥ ४२ ॥ पिपीलिका इति शेया वर्णकुकुमकेसरी । दक्षिणे यजुषामाहुर्नारदेन प्रकीर्तितः॥४३॥ अघोरे पश्चिमे संज्ञे मुखे जातो यथर्वणः । षद्वितापुत्रकस्तालस्तस्मादुद्भवयिष्यते (2) ॥ ४४ ॥ वैश्यजातिरिति प्रोक्तः कनकाभ इति स्मृतः। मुरजा इति नामाख्यं नारदेन प्रशंसितम् ॥ ४५ ॥ १°पटलीवा इति समीचीनः पाठः स्यात् । ...................

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94