Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 50
________________ २० सङ्गीतमकरन्दे | पराटी प्रावडी हंसी बसन्तत्य च योषितः । गुण्डक्रिया घूर्जरी व गौडी मालवयोषितः ॥ ७२ ॥ श्रीपुंसरागमाख्यातं द्वात्रिंशद्रागसंमतिः । अन्ये षटुं च पुरुषाः शत्रिंशङ्गीतपारगैः ॥ ७३ ॥ श्रीरागोऽपि वसन्तश्च भैरवः पश्चमस्तथा । मेधराजस्तु विज्ञेयो नाटनारायणश्च षट् ॥ ७४ ॥ गौडी कोलाहली चैव द्रावल्यान्दोलिकी तथा । माधवी देवगान्धारी श्रीरागत्य वराङ्गनाः ॥ ७५ ॥ शुद्धनाटा व सावेरी सैन्धवी मालती तथा । त्रोटिकौमोदकी 'चैव पश्चमस्य वराङ्गनाः ॥ ७६ ॥ सौराष्ट्री चैव काम्भारी बङ्गाली मधुमाधवी । देवकी चैव भूपाली मेघरागस्य योषितः ॥ ७७ ॥ वल्लभा माधवी चैव विदग्धा चाभिसारिका । त्रिवेणी मेघरशी च नाटनारायणस्य च ॥ ७८ ॥ 9................................................................................................ ........................ 1198 11 आयुर्धर्मयशोबुद्धिधनधान्यफलं लभेत् । रागाभिवृद्धिसन्तानं पूर्णरागाः प्रगीयते ( १ )॥ ८० ॥ सङ्ग्रामरूपलावण्यविरहं गुणकीर्तनम् । वाडवेन प्रगातव्यं लक्षणं गदितं यथा ॥ ८१ ॥ व्याविनाशी शत्रुनाशी भयशोकविनाशने । व्याधिदारिद्र्यसन्ताप्रे विषमग्रहमोचने ॥ ८२ ॥ कामडम्बरनाशे च मङ्गलं विषसंहते । औडवेन प्रगातव्यं ग्रामशान्त्यर्थकर्मणि ॥ ८३ ॥ मुक्ताङ्गकम्पिताः केचित्केचिदर्धविकम्पिताः । केचित्कम्पविहीनाञ्चैवेति रागास्त्रिया कृत्ताः ॥ ८४ ॥ ........................................... १ एकोनाशीतितमश्लोकस्थाने आदर्शपुस्तके त्रुटिचिह्नं लिखितं वर्तते । २ नाशे इति पाठः समीचीनः स्यात् । ३ मङ्गले इति पाठः अन्वयानुकूलः स्यात् ।

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94