Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text
________________
सङ्गीताध्याये तृतीयः पादः। वेलावली च भूपाला सोमरागस्तथैव च । एते रागास्तुगातव्याः प्रातःकाले विशेषतः ॥१२॥ शङ्कराभरणः पूर्वो पलहंसस्तथैव च।... देशी मनोहरी चैष साबेरी दोम्बुली तथा ॥ १३ ॥ काम्भोजी गोपिकाम्भोजी कैशिकी मधुमाधवी। बहुलीद्वयं मुखारी च तथा मङ्गलकौशिका ॥१४॥ एते रागविशेषास्तु मध्याहे परिकीर्तिताः। ... शुद्धनाटा च सालङ्गो नारी शुद्धवराटिका ॥१५॥ गौलो मालषगौडश्च श्रीरामधाहरी तथा।.. तथा रामकृती रजी छाया सर्ववराटिका ॥१६॥ वराटिका वाटिका देशी नागेपराटिका। कर्णाटहयगौडीति इत्येते चन्द्रमशिजाः ॥ १७ ॥ एते रागविशेषास्तु प्रातःकाले तु वेपताः। - सायमेषां प्रगानेन तस्य श्रीरतुला भवतु ॥ १८॥ ईशानं च हरि स्मृत्वा मध्याहादेरनन्ती। रागतः शृण्वतो वापि सर्वपापैः प्रमुच्यते ॥ १९॥ प्रहरैकोदयादर्वाक प्रहरैकोदयोपरि। देशाक्षी भैरवम् सुद्धा नादं यत्महरोडवम् ॥ २० ॥ वराटिका तथा शुद्धा द्रावटीरागसंज्ञिका। .. प्रहरोपरि गातव्या महारी माहुरी तथा ॥ २१॥ . आन्दोली च रामकृती छायानाटा च रङ्गका। . मध्याह्वात्परतो यामे गौडरागानि यानि च ॥ २२ ॥ त्रियामोपरि गातव्या शुद्धसालङ्गनाटिका।... एवं कालविधि ज्ञात्वा गायेद्यः स सुखी भवेत् ॥ २३ ॥ रागावेलाप्रगानेन रागाणां हिंसको भवेत् । .. परभृणोति स वारिद्री आयर्नश्यति सर्वदा.॥२४॥

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94