Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 34
________________ - सङ्गीतमकरन्दे पनामः पितरः स्वर्णवर्णः कुन्दप्रभः सितः। .. पीतः कर्बुर इत्येते तेषां वर्णा निरूपिताः ॥ ३० ॥ षड्नः कमलवर्णः स्याहषभः पिञ्जरस्तथा।.. गान्धारः वर्णवर्णः स्यान्मध्यमः कुन्दवर्णकः ॥ १॥ पश्चमः सितवर्णः स्याद्धैवतः पीतवर्णकः। . . . नैषादः कषुरो वर्णः ससवर्णा निरूपिताः ॥ २॥ . जम्बुशाककुशौचशाल्मलीश्वतनामसु। दीपेषु पुष्करे चैव जाताः षडादयः खराः ॥ ३ ॥ जम्बुद्वीपे च षड्जः साच्छाकले ऋषभोदयः। कुशद्वीपे च गान्धारः क्रौञ्चद्वीपे च मध्यमः ॥ ३४ ॥ शाल्मलीद्वीपनामाख्ये पश्चमः खर उद्भवः (१)। श्वेतद्वीपे तथा जन्म धैवतं नामसंशिकम् (१) ॥ ३५ ॥ . . पुष्करे चैव जातोऽयं निषादः परिकीर्तितः। सप्तखरान्समुवृत्य वीणादिषु निधाय च ।। ३६ ॥ दक्षोऽत्रिः कपिलचैव वसिष्ठो भार्गवस्तथा। नारदस्तुम्बुरुचैव षड्जादीनां ऋषीश्वसः ॥ ३७॥ वहिब्रमा शारदा च शर्वश्रीनाथभास्कराः। गणेश्वरादयो देवाः षड्डादीनां तु देवताः ॥ ३८॥ कमावनुष्टुंबगायत्री त्रिष्टुप् च बृहती तथा। पक्युष्णिगौ च जगती छन्दांसि परिकीर्तिताः (१)॥३९॥ षड्जस्य जमदनिश्च आत्रेयो ऋषमस्य च । गान्धारस्य गौतमस्तु वसिष्ठो मध्यमस का४०॥ श्रीवत्सः पञ्चमस्यैव धैवतस्य पराशरः।। शालहायो निषादस्य गोत्राणि कथितानि च ॥४१॥ षड़ः शतभिषग्जच चित्रा चऋपमस्य च (१) । गान्धारख घनिष्ठा में मध्यमस्य मघा स्मृता ॥ ४२ ॥ ... 'पचमस समुद्भवः' इति पाठः समीचीनः स्यात् । र लिष्टान्वयोऽयं पा ३ असम्बद्ध मिव भातीदमत्र श्लोकार्धम् । -

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94