________________
या महावीरेणं एवं वुत्ते समाणे हद्वतुट्ठचित्तमाणंदिए परमसोमणस्से" इत्यादि । पुनः श्रीबृहत्कल्पे जिनप्रतिमादर्श-15 नात् ज्ञानदर्शनचारित्रलाभरूपो भावग्रामः कथितोऽस्ति, तथाहि___ "तित्थयरा १जिन २ चउदस ३ भिन्ने ४ संविग्गं ५ तह य असंविग्गे ६ सारूविय ७ वय ८दसण ९ पडिमाओ १० भावगामाओ ११॥४१॥"
॥ इति जिनप्रतिमापूजाफलाधिकारः॥४१॥ ननु-प्रतिमायाः पूजने षट्कायवधेन महानारम्भो जायते, कथं ? पूर्व पाषाणादिघटने सचित्तपाषाणच्छेदादिना पृथ्वीकायवधः १ प्रतिमायाः स्नानकारापणे एकस्मिन् जलबिन्दौ केवलिनाऽसंख्याता जीवा दृष्टाः प्रतिपादिताश्चेति हेतोरप्कायवधः २ धूपोत्क्षेपे दीपप्रज्वालने चाऽग्निकायवधः ३ शङ्कादिवाद्यवादने वायुकायवधः ४ कुसुममालादीनां कण्ठादिपरिधापने वनस्पतिकायवधः ५ दीपादौ पतङ्गादिजीवमरणेन त्रसकायवधः ६ इति । जैनधर्मस्तु जीवदयामयः, तत्कथं मानयामि जिनप्रतिमापूजाम् १, इत्यत्र उच्यते-ननु-जिनधर्मो निःकेवलं जीवदयारूपो वाऽऽज्ञासहितदयारूपो वा ? नाऽऽद्यः पक्षः कक्षीकार्यः, भगवदुक्कागमपक्षेण समं प्रत्यक्षं विरोधस्य लक्ष्यमाणत्वात् । कथं यदि श्रीवीतरागदेवेन |नि केवलं जीवदयारूपो धर्मः प्ररूपितोऽभविष्यत् तदा साधूनां नदीलकुनादिकं कर्तव्यं भगवान् नाऽकथयिष्यत् !,
तत्रापि पृथिव्यादिजीवानां वधस्य प्रत्यक्षं जायमानत्वात् । नदीलनं च श्रीस्थानाङ्गसूत्रे पञ्चमस्थाने द्वितीयोद्देशके प्रथतमालापके ( ३०८ पत्रे), तथाहि-"नो कप्पइ निग्गंथाण वा निग्गंथीण वा इमाओ उद्दिट्ठाओ गणिआओ वितंजिता
RKARI
Jain Education Inter
201
Personal Use Only
V
iainelibrary.org