Book Title: Samacharishatakama
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 380
________________ सामाचारीशतकम्। कायोत्सगाधिकारः ९८ ॥१८६॥ सप्त हस्तमान एव भवति, तथा च सति तन्मानतो लघुतरार्हत्प्रतिमाः सर्वा अपि अप्रमाणतां प्राप्स्यन्ति, सांप्रतं तु अर्हत प्रतिमाः लघुतराः प्रतिग्राम प्रतिनगरं प्रतिदेवगृहं दृश्यन्ते, ततः तासां समाराधनं अफलमेव स्यात् न च तदफलं भवति संविग्नश्रुतधरैः आइतत्वात् । तस्मात् यथा स्थाप्यमानात लघ्व्योः लघुतरा-लघुतमाऽपि तीर्थकृत्प्रतिमा आराध्यन्ते तथा स्थापनाचार्योऽपि, तथा शीतलाचार्येणाऽपि श्रीआवश्यके गुरुस्थापना स्थाने दण्डकः स्थापितोऽस्ति । पुनर्विस्तरार्थिना श्रीसन्देहदोलावलीबृहद्धत्तिः द्रष्टव्या॥९७॥ ॥ इति स्थापनायां पञ्चाऽपि परमेष्ठिन इत्यधिकारः॥ ९७॥ ननु-श्रुतदेवतादीनां कायोत्सर्गः प्रतिक्रमणे क्रियते, स सिद्धान्तोतया आचरणया वा क्रियते ? उच्यते-आचरणया, यदुक्तं श्रीहरिभद्रसूरिभिः श्रीपञ्चवस्तुकवृत्तौ (८० पत्रे ), तथाहि “पम्हट्ठमेरसारण, विणओ उ ण फेडिओ हवइ एवं । आयरणा सुयदेवय-माईणं होइ उस्सग्गो ॥ ४९१॥" वृत्तिः-आचरणया श्रुतदेवतादीनां भवति कायोत्सर्गः, आदिशब्दात् क्षेत्रभवनदेवतापरिग्रह इति । ननु इयं आचरणा कदा जाता? उच्यते-पूर्वधरकाले संभाव्यते-यतः श्रीवीरनिर्वाणाद्वर्षसहस्र गते पूर्वश्रुतं व्यच्छिन्नं, अथ च श्रीहरिभद्रसूरिस्तु वीरनिर्वाणात् पञ्चपञ्चाशदधिकवर्षसहस्रे व्यतीते दिवं गतः, यदुक्तं-"चउसयतिपन्नवरिसे ४५३, कालगगुरुणा सरिस्सई गहिआ। चउसयसत्तरिवरिसे ४७०, वीराओ विक्कमो जाओ ॥११॥ ततः-"पंचसए पणतीए, विक्कमकालाओ झत्ति अत्थमिओ हरिभद्दसूरिसूरो, निबुओ दिसओ सिवसुखं ॥१००॥” इति । श्रीहरिभद्रसूरिणा ॥१८६॥ Jain Education Inter For Pate Personal use only 972 A jainelibrary.org

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398