Book Title: Samacharishatakama
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 393
________________ VF॥ ग्रन्थकृत्प्रशस्तिः॥ सामाचारीशतकमिदमासूत्रितं सूत्रगत्या, किंचित् वृत्तिप्रकरणवशात् संप्रदायाच किंचित् । चेद् ग्रन्थेऽस्मिन् भवति किमपि श्रीजिनाज्ञाविरुद्धं, संघाध्यक्ष मम जडधियो दुष्कृतं स्याच [तस्य मिथ्या ॥१॥ जैना गच्छा जगति बहवो भिन्नभिन्नाभिधाना, भिन्नाचारा निजनिजमतं स्थापयन्ति प्रमाणम् । गच्छाधीशाः श्रुतनिगदितां संमतिं दर्शयन्ति, [तव्यामोहो तस्या मोहो न भवति कथं ? यजिना व सत्या ॥२॥ प्रारब्धं किल सिन्धुदेशविषये श्रीसिद्धपुर्यामिदं, मूलत्राणपुरे कियद्विरचितं वर्षत्रयात् प्राग्मया। संपूर्ण विदधे पुरे सुखकरे श्रीमेडतानामके, श्रीमद्विक्रमसंवति दि-मुंनि-षट्-प्रालेयरोचिर्मिते १६७२ ॥३॥ प्रवर्तमाने जिनवीरशासने, परम्परायां गणभृतसुधर्मणः।श्रीवज्रशाखा सुकुले च चान्द्रे,गणे स्फुटे कौटिकनामधेये ४ श्रीपातिसाहिमान्ये, युगप्रधाने प्रधानसौभाग्ये । खरतरगच्छाधीशे, विजयि जिनसिंहसूरिगुरौ ॥५॥ अकब्बरसाहिस्तुमान्यः, श्रीमजिनचन्द्रसूरिगुरुराजाः। जाता युगप्रधाना-स्तच्छिष्यः सकलचन्द्रगणिः ॥ ६॥ तच्छिष्यसमयसुन्दर-सदुपाध्याया अकार्षुरिदमेवम् । सामाचारीशतकं, सततं स्वपरोपकाराय ॥७॥ सुशिष्यो वाचनाचार्य,-स्तर्कव्याकरणादिवित् । हर्षनन्दनवादीन्द्रो, मम साहाय्यदायकः॥८॥ इति श्रीसमयसुन्दरोपाध्यायविरचिते पञ्चमप्रकाशे श्रीसामाचारीशतकं संपूर्णम् ॥ सामा० ३३ Jain Education Inteme For Pm285onal use Only GANw.jainelibrary.org

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398