Book Title: Samacharishatakama
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 388
________________ सामाचा रीशत शान्तिक विधिरधिकार कम्। एवं पश्चिमदिशि-यःप्रतीच्या दिशो नाथो, वरुणो मकरस्थितः। संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥५॥ एवं वायव्यदिशि-हरिणो वाहनं यस्य, वायव्याधिपतिः स्मरः। संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥६॥ एवमुत्तरदिशि-निधाननवकारूढ, उत्तरस्या दिशः प्रभुः । संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥७॥ एवमीशानदिशि-सिते वृषेऽधिरूढः स-नीशानो विदितः प्रभुः। संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥८॥ एवमधोदिशि-पातालाधिपतिर्योऽस्ति, सर्वदा पद्मवाहनः। संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥९॥ एवमूवंदिशि-ब्रह्मलोकविभुर्योऽस्तु, राजहंससमाश्रितः । संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥१०॥ एवं दशस्वपि दिक्षु जलधारादानेन स्वस्वदिक्स्वामि श्लोकप्रतिपादेन च बलिः प्रक्षिप्यते, प्रथमं प्रान्ते च श्लोकादौ नमोऽहत् सिद्धेति कथ्यते । एतस्मिन् विधौ कृतेऽत्र प्रस्तावे यदि संघसामुदायिकः शान्तिः तदा देवगृहसत्कः कलशो गृह्यते, यदि एकः कोऽपि कारयति तदा शान्तिकारकगृहात् चतुरश्चलसधवसुन्दरीशिरसि आरोप्य बहुगीतगानतानमानदानपाञ्चजन्यशब्दादिवादित्रे वाद्यमाने अन्तर्धवलितः पञ्चरत्नोपेतः मुखवेष्टितमुहलीसूत्र उपरि समाच्छादितकसुम्भलवस्त्रः कलशः समानीय पूर्वकृतस्वस्तिकोपरि स्थाप्यते कलशमध्ये श्रीशान्तिनाथप्रतिमा निश्चला सुसज्जिता कृत्वा मोच्या, कलशोपरिष्टात् ऊर्ध्व तणीचतुष्कमध्ये उपर्युपरि प्रोतखाजिलीपक्वान्नं बध्यते, तणीमध्यतो महुलीदवरको लम्बमानस्तथा बध्यते यथा कलशोपरि मुखमध्यभागे तिष्ठति, तत्र च संघसमुदायको महुलीकन्दुको बध्यते, कलशस्य पुष्पचन्दनपूजा कार्या। गुरुरपि वासक्षेपं करोति । ततः कलशाग्रे कुसुमाञ्जलि १ लवणपानीय २ परिधापनिका ३ आरात्रिका ४ मङ्गलप्रदीपाः ५ CAUSURAROGARIASARAK ॥१९०॥ Jain Education temel For 2 80ersonal use only jainelibrary.org

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398