Book Title: Samacharishatakama
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
-
शान्तिकविधिरधिकारः १००
सामाचा- 14 इत्यादि । अम्बा निहितडिम्बा मे, सिद्धबुद्धश्रुतान्विता । सिते सिंहे स्थिता गौरी, वितनोतु समीहितम् ॥१०॥ ततः रीशत
श्रीपद्मावतीदेवतानिमित्तं करेमि काउस्सग्गं अन्नत्थू इत्यादि । धराधिपतिपत्नीया, देवी पद्मावती सदा । क्षुद्रोपद्रवतः सा मां, पातु फुल्लत्फणावलीः॥११॥ ततः श्रीचक्रेश्वरीदेवतानिमित्तं करेमि काउस्सग्गं अन्नत्थू इत्यादि । चश्चच्चक्रकरा
चारु-प्रवालदलसन्निभा। चिरं चक्रेश्वरी देवी, नन्दतादवताच्च माम् ॥ १२॥ ततः श्रीअच्छुप्तादेवतानिमित्तं करेमि ॥१९१॥
काउस्सग्गं अन्नत्थू इत्यादि । खड्गखेटककोदण्ड-बाणपाणितडिद्युतिः । तुरङ्गगमनाऽच्छुप्ता, कल्याणानि करोतु मे ॥ १३ ॥ ततः श्रीकुबेरादेवतानिमित्तं करेमि काउस्सग्गं अन्नत्थू इत्यादि । मथुरापुरि सुपार्श्व-श्रीपार्श्वस्तूपरक्षिका ।
श्रीकुबेरा नरारूढा, सुताङ्काऽवतु वो भयात् ॥ १४॥ ततः श्रीब्रह्मशान्तिदेवतानिमित्तं करेमि काउस्सग्गं अन्नत्थू ४ इत्यादि । ब्रह्मशान्तिः स मां पाया-दपायाद्वीरसेवकः । श्रीमत्सत्यपुरे सत्या, येन कीर्तिः कृता निजा ॥१५॥ ततः
श्रीगोत्रदेवतानिमित्तं करेमि काउस्सग्गं अन्नत्थू इत्यादि । या गोत्रं पालयत्येव, सकलाऽपायतः सदा । श्रीगोत्रदेवता रक्षा, सा करोतु नताऽङ्गिनाम् ॥ १६ ॥ ततः श्रीशक्रादिसमस्तदेवतानिमित्तं करेमि काउस्सग्गं अन्नत्थू इत्यादि । श्रीशक्र
प्रमुखा यक्षाः, जिनशासनसंस्थिताः । देवदेव्यस्तदन्येऽपि, संघं रक्षत्वपायतः॥ १७ ॥ ततः सिद्धायिका-श्रीशासनदेवदतानिमित्तं करेमि काउस्सग्गं अन्नत्थू इत्यादि । श्रीमद्विमानमारूढा, यक्षमातङ्गसेविता । सा मां सिद्धायिका पातु, चक्र
चापेषु धारिणी ॥१८॥
॥१९
॥
Main Education Intem
1
For Private & Personal use only
Rajainelibrary.org

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398