Book Title: Samacharishatakama
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 378
________________ सामाचा शतकम् । ॥ १८५ ॥ Jain Education Inter पञ्चपरमेष्ठिनः स्थाप्यन्ते न साध्व्यः तथा च स्थापनायां संघट्टो भवतीति अचेतनत्वात् तीर्थकरस्थापनावत् यथा श्राविकाणां तीर्थकरप्रतिमासंघट्टो न भवति एवं स्थापनाचार्यस्याऽपि । यदुक्तं श्रीव्यवहारभाष्ये दशमोद्देशके, तथाहि"दस विहवेयावच्चं, इमं समासेण होइ नायबं [ विन्नेयं ] | आयरिय-उवज्झाए, थेरे अ तवस्सि सेहे य ॥ १२३ ॥ अंतरंतकुलगणे य संघे साहम्मि वेयावच्चे अ । एएसिं तु दसहं, कायचं तेरसपएहिं ॥ १२४ ॥” इति । परः प्राह- नन्वत्र आचार्यस्य वैयावृत्यं उक्तं न तु अर्हतः ? उच्यते - अत्र 'आयरिये' ति पदेन तीर्थङ्करो व्याख्यातोऽस्ति, यदुक्तम् " तित्थयरवेयावच्चं न भणियमित्थं तु किं न कायवं । किं वा न होइ निज्जर, तहिअं अह चेइआयरिओ ॥ १ ॥ “आयरियग्गहणेणं, तित्थगरो तत्थ होइ गहिओ उ । किं वा न होआयरिओ, आयरं उवदिसंते अ ॥ १३२ ॥” तत एकस्यामेव स्थापनायां आवश्यकादिकरणकाले स्थापनाचार्य इति व्यपदिश्यते, चैत्यवन्दनवेलायां तु स्थापनाऽर्हनिति, " जिणविरहंमि अ जिणबिंब ठावणे” ति वचनात् । न वाच्यं एकत्रैव अर्हद्व्यपदेश आचार्यव्यपदेशश्च विरुध्येत, तन्निबन्धयोः अर्हत्त्व - गुरुत्वयोः एकत्वसद्भावस्य आगमे संस्थापितत्वात्, तच्च प्राग्व्यवहारभाष्यगाथायां आयरियपदेन द्वयमपि दर्शितं, तीर्थङ्करस्य च आचार्यत्वं सर्वत्र सिद्धान्तादिषु प्रतिपादितमस्ति । तत्र श्रीभगवत्यां ( ११४ पत्रे ) श्रीगौतमस्वामिना श्रीमहावीरदेवस्य धर्माचार्यत्वं उक्तमस्ति, तथाहि “तए णं से भगवं गोयमे खंदयं कच्चायणस्सगोत्तं एवं वयासी एवं खलु खंदयां ! मम धम्मायरिए मम धम्मोवदेसए For Private & Personal Use Only स्थापनायां पंचपरमे व्यधिकारः ९७ ॥ १८५ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398