Book Title: Samacharishatakama
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 375
________________ कथं अन्यदा व्युत्सृजन्ति, तथा च या गृहिण्यो नीरोगा अपि सम्यक्त्वप्रतिपत्त्यनन्तरं स्वदेशानुरोधाद्वा १ धर्मादिकारणाद्वा २ वस्त्रमालिन्यादि भयादा ३ यूकापातादिशङ्कया वा ४ वैधव्यस्थित्या वा ५ अपरिहितकचुका अस्थानविदी परिधाना अस्थगितशिरसः परिधानाऽश्चलस्थगितशिरसो वा स्त्रीवृन्दमध्येऽपि चिरं तिष्ठन्ति । किं पुनः पुरुषा-लोके ताले | विराधका एव बोद्धव्याःप्रवचनलाघवहेतुत्वादिति, एवमेव कृतसामायिकायाः श्राविकाया उत्सर्गतो वस्त्रत्रयस्यैव ग्रहणं| श्रीसन्देहदोलावलीसूत्रे (६९ पत्रे ) युगप्रधानश्रीजिनदत्तसूरिभिलिखितमस्ति, तथाहि| “एवं कयसामइया, वि साविगा पढमनयमएणेह । कडिसाडगकंचुयमु-त्तरीज-वत्थाणि धारेइ ॥ ४७ ॥” गाथा । ननु-कृतसामायिकश्राविकाया यद् वस्त्रत्रयं उत्सर्गतः प्रतिपादितं तत् ज्ञातं, परं अपवादतः सा कियन्ति वस्त्राणि बिभृयात् ? उच्यते-शीतादिकारणे सति प्रागुक्तपरिधानशाटक-कञ्चकोत्तरीयरूपाणां औत्सर्गिकवस्त्राणामुपरि पुनः प्राव-I रणवस्त्रत्रयेण अङ्गानि आच्छादयति, अत एव शरीरलग्नवस्त्रत्रयादधिकं एक द्वे वा त्रीणि वा च वस्त्राणि प्रावरीतुकामाऽपि असौ प्रावरणं संदिशति एव प्रावृणोति नाऽन्यथा । प्रतिक्रमणे तु षोढाऽऽवश्यककरणवेलायां पुनस्त्रिपदं शीताद्यबाधाद्यपवादपरिगृहीतं प्रावरणरूपं वस्त्रस्थानत्रयं परिहरति, स्वस्थानोपयुक्तैकशाटिकाकञ्चकोत्तरीयेभ्योऽन्यत् प्रतिक्रमणकाले श्राविकाया न कल्पते इत्यर्थः । इत्थमेव कृतसामायिकायाः श्राविकायाः अपवादपदेन श्रीजिनदत्तसूरियुगप्रधानैरपि सन्देहदोलावलीसूत्रे (६९ पत्रे) प्रतिपादितमस्ति । तथाहि Jain Education intem ForPOL7rsonal use only How.jainelibrary.org

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398