Book Title: Samacharishatakama
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 367
________________ गुणनं पूर्वपठितपाठो गुण्यतेदानवमे नमो दसणस्स २००० गुणनं निरतिचारं शुद्धं सम्यक्त्वं पाल्यते ९ दशमे नमो 8|| विणयसंपन्नाणं २००० गुणनं देवगुरुवृद्धानां विनयभक्तिः क्रियते १०। एकादशे नमो चारित्तस्स २००० गुणनं कालवे-18 लायां प्रतिक्रमणद्वयं क्रियते ११॥ द्वादशे नमो बंभवयधारिणं २००० गुणनं द्वादशव्रतपालनं विशेषतः क्रियते १२॥ त्रयोदशे नमो किरिआणं २००० गुणनं सामायिकादिक्रियायां प्रमादोन क्रियते १३ । चतुर्दशे नमो तवस्सीणं २००० गुणनं विशेषतस्तपः क्रियते १४ । पञ्चदशे नमो गोयमस्स २००० गुणनं सुपात्राय दानं दीयते १५। षोडशे नमो जिणाणं २०००४ गुणनं देवानां वृद्धानां च वैयावृत्यं क्रियते १६। सप्तदशे नमो चारित्तधारिणं २००० गुणनं पौषधपूर्व मनःसमाधिना स्थातव्यं १७ । अष्टादशे नमो नाणस्स २००० गुणनं नवीन श्रुताभ्यासः क्रियते १८ । एकोनविंशे नमो सुअस्स २००० गुणन वेष्टनकदवरकादिना पुस्तकपूजा क्रियते १९ विंशे नमो पवयणस्स २००० गुणनं जिनशासनोन्नति प्रभावनाः क्रियते २० सर्वत्र स्थानकेषु उत्कृष्टतः त्रिकालदेववन्दनं १ भूमिसंस्तारके शयनं २ त्रिकालं देवपूजनं ३ उभयकालं प्रतिक्रमणं| कर्तव्यं ४, एतत्सर्व संयोगाभावेऽपि च पञ्चशक्रस्तवैः देववन्दनं कर्तव्यमेव, तपःपूतौ च विंशतिमोदकादिसर्वपक्वान्नढोकसूनपूर्व देवगृहे स्नात्रं विधाय संघभक्तिः क्रियते ॥ ९१॥ ॥ इति विंशतिस्थानकतपोविधिरधिकारः ॥९॥ ननु-भोजनानन्तरं संवरणे वन्दनकानि दीयन्ते-क्रियते तानि किं भुक्तैः अभुक्तैर्वा दीयन्ते ? उच्यते-भुक्तैरेव नाऽभुक्तैः यतो वन्दनकचूर्णी अभुक्तानां नियतानि चतुर्दशवन्दनानि अहोरात्रमध्ये प्रोकानि, भुक्तानां तु पञ्चदशेति तथा च Jain Education interes C alersonal use Only law.jainelibrary.org

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398